Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 374
________________ सम्मतितस्वसोपाने [ पचविंशम् षड् मिथ्यात्वस्य स्थानानि, षण्णामप्येषां पक्षाणां मिथ्यात्वाधारतया व्यवस्थितेः, सथाहि एतानि नास्तित्वादिविशेषणानि साध्यधर्मिविशेषणतयोपादीयमानानि किं प्रतिपक्षव्युदासेनोपादीयन्ते, आहोस्वित् कथश्चित्तत्सङ्ग्रहेण, प्रथमपक्षे प्रत्यक्षविरोधः, स्वसंवेदनाध्यक्षतश्चैतन्यस्यात्मरूपस्य प्रतीतेः, कथञ्चित्तस्य परिणामिनित्यताप्रतीतेः, शरीरादिव्यापारतः 5 कर्तृत्वोपलब्धेः, स्वव्यापारनिर्वर्तित भक्तरूपादिभोक्तृत्वसंवेदनात्, पुद्गललक्षणविलक्षणतया रागादिविविक्ततया च शमसुखरसावस्थायां कथञ्चित्तस्योपलब्धेः, स्वोत्कर्षतरतमादिभावतो रागाद्यपचयतरतमभावविधायिसम्यग्ज्ञानदर्शनादेरुपलम्भाच्च । अनुमानतोऽपि विरोधः तथाभूतज्ञानकार्यान्यथानुपपत्तितश्चैतन्यलक्षणस्यात्मनः सिद्धिःघटादिवत् रूपादिगुणतः, ज्ञान स्वरूपगुणोपलम्भात् कथञ्चित्सदभिन्नस्यात्मलक्षणगुणिनः सिद्धेरिति कथं नानुमानविरोधः, 10 इतरधर्मनिरपेक्षधर्मलक्षणस्य विशेषणस्य तदाधारभूतस्य विशेष्यस्य चाप्रसिद्धेः अप्रसिद्धवि. शेषण विशेष्योभयदोषैर्दुष्टश्च पक्षः । आत्मा इति वचनेन तत्सत्ताभिधानं नास्तीत्यनेन च तत्प्रतिषेधाभिधानमिति पदयोः प्रतिज्ञावाक्ये व्याघातो लोकविरोधश्च, तथाभूतविशेषणविशिष्टतया धर्मिणो लोकेन व्यवह्रियमाणत्वात् , स्ववचन विरोधश्च तत्प्रतिपादकवचनस्येतर धर्मसापेक्षतया प्रवृत्तेः । हेतुरपीतरनिरपेक्ष कधर्मरूपोऽसिद्धः तथाभूतस्य तस्य कचिदनुप15 लब्धेः सर्वत्र तद्विपरीत एव भावात् विरुद्धश्च । दृष्टान्तश्च साध्यसाधनधर्मविकलः, तथा भूतसाध्यसाधनधर्माधिकरणतया कस्यचिद्धर्मिणोऽप्रसिद्धः, तन्न प्रथमः पक्षः । नापि द्वितीयः, स्वाभ्युपगमविरोधप्रसङ्गात् , साधनवैफल्यापत्तेश्च, तथाभूतस्यानेकान्तरूपतयाऽस्माभिरप्य. भ्युपगमात्। तस्माद्यवस्थितमेतदेकान्तरूपतया षडप्येतानि मिथ्यात्वस्य स्थानानीति ॥५४॥ नैतान्येव स्थानानि किन्तूक्तवैपरीत्येनाप्येकान्तवादे तथैवेत्याह10 अत्धि अविणासधम्मो करेइ वेएइ अस्थि णिचाणं । ____ अत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥ ५५ ॥ अस्त्यविनाशधर्मा करोति वेदयतेऽस्ति निर्वाणम् । अस्ति च मोक्षोपायः पण्मिथ्यात्वस्य स्थानानि || छाया ॥ अस्तीति, अस्यात्मेति पक्षः नैयायिकादेर्वादिनः, स चाविनाशधयेषः कपिलमता. 25 नुसारिणः । कर्तभोक्तस्वभावोऽसाविति जैमिनेर्मतम् । तथाभूत एवासौ जडस्वरूप इत्यक्ष पादकणभुमतानुसारिणः । अस्ति निर्वाणमस्ति च मोक्षोपाय इति नास्तिकयाज्ञिकव्यति. रिक्ताः पाखण्डिनः । एते चाभ्युपगमा एकान्ताभ्युपगमत्वान्मिध्यास्थानानि, एष्वपि पूर्ववद्विकल्पद्वयेऽपि तदोषानतिवृत्तेः एकान्तेन तदस्तित्वादेरध्यक्षानुमानाभ्यामप्रतीतेः तथाभ्युपगमे "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420