SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ 'सम्मतितत्वलोपाने [ अयरिंशम् वैशेषिकस्य परस्परविरुद्धशुक्लादिनानारूपेभ्यश्चित्रैकरूपोत्पादासम्भवाच्च, शुक्लादिरूपाणां समानरूपारम्भकत्वोपलम्भात् । किञ्च शुक्लाच्छुक्लमित्यादिप्रतीतेः समानजातीयगुणारम्भकत्वमेव यदि कारणगुणानामित्यभ्युपगम्यते तर्हि कारणगतशुक्लादिरूपविशेषेभ्यः कार्येऽपा स्ततद्विशेषस्य रूपमात्रस्य कथमुत्पत्तिर्भवेत् , तेभ्यस्तस्यासमानत्वात् । अथ तद्गतरूपमात्रेभ्यस्त. 5 दूपमात्रस्योत्पत्तेर्न दोष इति चेन्न शुक्लादिविशेषरूपव्यतिरेकेण रूपत्वादि सामान्यमपहाय रूप मात्रस्याभावात् , सामान्यस्य च नित्यत्वेनाजन्यत्वात् , न च रूपमात्रनिबन्धनः चित्ररूपः पट इति प्रतिभासो युक्तः, शुक्ला दिप्रत्ययस्यापि तन्निबन्धनत्वेन शुक्लादिरूपविशेषस्याप्यभावप्रसक्तेः, न चावयवगतचित्ररूपात् पटे चित्रप्रतिभासः, अवयवेष्वपि तद्रूपासम्भवात् , न चान्यरूप स्यान्यत्र विशिष्टप्रतिपत्तिजनकत्वम् , पृथिवीगतचित्ररूपाद्वायौ चित्ररूपप्रतिपत्तिप्रसक्तः । 10 यदि च रूपमात्रमेव तत्र स्यात् क्षितावनेकप्रकारं रूपमिति विरुद्ध्यते, अनेकप्रकारं हि शुक्लत्वादिभेदभिन्नमुच्यते रूपमात्रश्च शुक्लादिविशेषरहितं तस्य शुक्लादिविशेषेष्वनन्तर्भा. वात् कथं न विरोधः । न च नीलादिरूपैरेकरूपारंभादेकमेव पटे चित्रं रूपम् , यथाहि रूपस्य विशेषः शुक्लादिस्तथा चित्रमपि रूपविशेष एव चित्रशब्दवाच्य इति वक्तव्यम् , अनेकाकारस्यैकत्वे चित्रैकशब्दवाच्यत्वे वा सदसदनेकाकारानुगतस्यैकस्य कारणादिशब्दवा15 ध्यत्वेनाभ्युपगमप्रसङ्गात् । यथा च बहूनां तन्त्वादिगतनीलादिरूपाणां पटगतैकचित्ररूपार म्भकत्वं दृष्टत्वादविरुद्धं तथानेकाकारस्यैकरूपत्वं वस्तुनो दृष्टत्वादेवाविरुद्धमभ्युपगन्तव्यम् , अत एवानेकरूपत्वाश्चित्ररूपस्य एकावयवसहितेऽवय विन्युपलभ्यमाने शेषावयवावरणे चित्रप्रतिभासाभाव उपपत्तिमान । सर्वथा त्वेकरूपत्वे तत्रापि चित्रप्रतिभासः स्यात. अवयवि व्याप्त्या तद्रूपस्य वृत्तेः । न चावयव नानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं 20 जनयतीति तत्र सहकार्यभावाञ्चित्रप्रतिभासानुत्पत्तिरिति वाच्यम् , अवयविनोऽप्यनुपलब्धि प्रसङ्गात् , न हि चाक्षुषप्रतिपत्त्याऽगृह्यमाणरूपस्यावयविनो वायोरिव ग्रहणं दृष्टम् , न च चित्ररूपव्यतिरेकेणापरं तत्र रूपमस्ति यतस्तत्प्रतिपत्त्या पटग्रहणं भवेत् । नाप्यवयवरूपोपलम्भोऽवयविरूपप्रतिपत्तावक्षसहकारी, तद्भावे वा तदवयवरूपोपलम्भोऽपि स्वावयवरूपोप लंभाक्षसहकारीति तमन्तरेण स न स्यादित्येवं पूर्वपूर्वावयवरूपोपलम्भापेक्षया परमाणुरूपो25 पलम्भाभावात्तजन्यव्यणुकाद्यवयविरूपोपलेभासम्भवान्न कचिदपि रूपोपलब्धिः स्यात् , तदभावे च नावयव्युपलब्धिरिति तदाश्रितपदार्थानामप्युपलम्भाभावात् सर्वप्रतिभासाभावः स्यात् । तत एकाने कस्वभावं चित्रपटरूपवद्वस्तु परेणाप्य भ्युपगन्तव्यमेव । बौद्धनापि चित्रपटप्रतिभासस्यैकानेकरूपतामभ्युपगच्छता एकानेकरूपं वस्त्वभ्युपगतमेव । अथ प्रतिभासोऽ प्येकानेकरूपो नाभ्युपगम्यते तर्हि सर्वथा प्रतिभासाभावः स्यादिति असकृदावेदितम् । तत "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy