________________
१३.
सोपानम् ]
. কঙ্কালসল। नोऽपि कार्यसद्भावो न भवेत् । किञ्च सतः कारणात् कार्योत्पत्तिमभ्युपगच्छता बौद्धस्येव न कार्योत्पत्तिकाले कारणस्यासत्वं सिद्धम् , अविचलितरूपस्य च तस्य सद्भावेऽपि न कार्यवत्ता, विकलकारणत्वात् प्राग्वत् , अन्यथा पूर्वमपि तद्वत्ता स्यात् , अविकलकारणत्वात् इदानीमिव, तस्मान्नैकान्तसत्कार्यवादोऽसत्कार्यवादो वा युक्तः, अनेकदोषदुष्ठत्वात् ।। अथैकान्तेन सदसतोरजन्यत्वादजनकत्वाच्च कार्यकारणभावासम्भवात् सर्वशून्यतैवेति चेन्न, 5 कथञ्चित् सदसतोर्जन्यत्वाच, न चैकस्य सदसद्रूपत्वं विरुद्धम् , कथश्चिद्भिन्ननिमित्तापेक्षस्य सदसत्त्वस्यैकदैकत्राबाधिताध्यक्षनः प्रतिपत्तेः, न चाध्यक्षतः प्रतिपन्ने वस्तुनि विरोधः, अन्यथैकचित्रपटाने चित्ररूपतायाः चित्रपटे च चित्रैकरूपस्य विरोधः स्यात , तथा च शुक्लाधनेकप्रकारं पृथिव्या रूपमिति वैशेषिकस्य विरुद्धाभिधानं स्यात्, न च तदवयवानां शुक्लाद्यनेकरूपयोगित्वमवय विनि त्वेकमेव रूपमिति वाच्यम् , तदवयवानाम- 10 प्यवयवितयाऽनेकप्रकारैकरूपवत्त्वविरोधात् । न चैकैकावयवेष्वेकैकं शुक्लादिरूपमस्तीति वक्तव्यम् , यावत्परमाणुतत्तदवयवानामेकैकरूपतापत्त्या विभिन्नघटपटादिपदार्थेष्विव चित्र. पटेऽपि नीलपीतशुक्लरूपा एते भावा इति प्रतिपत्ति: स्यात् , न तु चित्ररूपः पट इति, अवयवावयविनोरनन्यत्वात् , अवयवानामनेकरूपवत्त्वेऽप्यवयविनस्तथाभावाभावात् , तस्यापि विभिन्नानेकरूपवत्त्वे चित्रैकरूपप्रतिभासानुपपत्तिः, अनेकरूपसम्बन्धित्वस्यैव तत्र भावात, 15 तथा च ' अविर्भुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामसम्भवादि ति विरुद्धाभिधानं भवेत् । किञ्चैकत्र पटादौ नानारूपाणां सद्भावाभ्युपगमे तस्य व्याप्यवृत्तित्वं अव्याप्य. वृत्तित्वं वा, अश्याप्यवृत्तित्वे रूपादीनामाश्रयव्यापित्वाभिधानमसङ्गतं भवेत् , एकावयवस. हितेऽवयविन्युपलभ्यमानेऽपरावयवानुपलब्धावपि अनेकरूपप्रतिपत्तिः स्यात् , सर्वरूपाणामाश्रयव्यापित्वात् । न च शुक्लादिवच्चित्ररूपं विलक्षणमेकमतो न दोष इति वाच्यम् , अनेका- 20 कारैकरूपस्य अविरुद्धत्वापत्तेः, चित्रैकरूपाभ्युपगमस्य चित्रतरत्वात् । प्रत्यक्षेण तथा प्रतीतेने विरोध इति चेत् सदसद्रूपैकरूपतया कार्यकारणरूपस्य वस्तुनः प्रतिपत्तौ कथं विरोधो भवेत् । न च चित्रपटादावपास्तशुक्लादिविशेष रूपं विलक्षणमेकस्वभावं न तु नानाकारमिति वाच्यम् , चित्ररूपः पट इति प्रतिभासाभावप्रसक्तेः, असमानजातीयगुणानारम्भकत्ववादिनो
१ अविभुनि घटादौ चक्षुह्यिो झ्यादिविशेषगुणो नैकदा विद्यत इत्यर्थः, तस्मान्नैकदा पटे नानारूप- 25 सम्भवः, घटे चक्षु ह्याणां रूपसंख्यापरिमाणादोनामेकदैव सत्त्वाद्विशेषगुणेति, तत्रैव रूपरसादेः सत्वात्समानेन्द्रियग्राह्याणामिति, समानता चेन्द्रियविभाजकोपाधिमत्तया । आत्मन्येकदैव मनोप्राह्याणां ज्ञानेच्छादिविशेष. गुणानां सद्भावादविभुनीति ॥ २ अभावविशिष्टान्यत्व व्याप्यवृत्तित्वम्, वै० स्वप्रतियोगित्वस्वसामाना. धिकरण्योभयसम्बन्धेन ॥
"Aho Shrutgyanam"