SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [प्रयविंशम् मिति व्यपदेशः, अथ ज्ञानलक्षणकार्यसद्भावाद्धेतोः सत्त्वव्यवस्थितिरिति चेज्ञानस्यापि कथं ज्ञेयसत्ताव्यवस्थापकत्वम् , ज्ञेयकार्यत्वादिति चेन्न यतः किं तेनैव ज्ञानेन ज्ञेयकार्यता स्वात्मनः प्रतीयते उत ज्ञानान्तरेण, नाद्यः, तस्य प्रागसत्त्वाभ्युपगमादप्रवृत्तेः, समानकालत्वेऽपि ज्ञानस्य ज्ञेयकार्यत्वाभ्युपगमेऽविशेषतो वैपरीत्यप्रसङ्गः सव्येतरगोविषाणयोः समानकालयोरपि 5 कार्यकारणभावप्रसङ्गश्च । न द्वितीयः तस्यापि स्वप्रमेयकार्यावगतौ प्रागवृत्तितयाऽसामर्थ्यान् , तस्मान्न ज्ञानलक्षणमपि कार्य क्षणिकैकान्तवादे हेतोः सत्ता व्यवस्थापयितुं समर्थम् , अध्यक्षं तु न पौर्वापर्ये प्रवर्तते, उक्तन्यायात् , नानुमानमपि, तस्य तत्पूर्वकत्वात् तन्नासत्कार्यवादः प्रमाणसङ्गतः ॥ सत्कार्यवादस्तु प्रागेव निरस्तः, तथापि किश्चिदुच्यते, तत्र नित्यस्य कार्य कारित्वं तस्य व्यतिरेकाप्रसिद्ध्या कार्यकरणसामर्थ्यांप्रसिद्धरयुक्तम् , सर्वदेशकालव्यापिनो 10 नित्यस्य हि कचिदपि कार्यव्यापारविरहिणो न सामर्थ्यमवगन्तुं शक्यते । न च सर्वदेशाव्यापि नस्तस्य कार्यकारणसामर्थ्यम्, तथाप्रतीतिबलात्सर्वदेशाव्याप्तेरवगमे सर्वकालाव्याप्तेरपि तत एवाभ्युपगमप्रसङ्गात् । अभ्युपगम्यत एवेति चेन्न, कतिपयदेशकालव्याप्तेरप्यप्रतिपत्तेः, तथा च निरंशैकक्षणरूपता भावानां समायाता । न च तदेकान्तपक्षेऽपि कार्यजनकता, प्राङ्नि रस्तत्वात् , न चैकान्तनित्यव्यापकत्वपक्षे प्रमाणप्रवृत्तिरित्यसकृत् प्रतिपादितम् । न चासति कार्ये 15 निर्विषयत्वात् कारणव्यापारासम्भवात्सत्येव तत्र तेषां व्यापारः, हेतूनां जडत्वेन दृष्ट्वा श्रुत्वा ज्ञात्वा वा कार्ये व्यापाराभावात् । न चादृश्यमानाजडेश्वरादिहेतुकमकृष्टोत्पत्तिकं भूरुहादि सम्भवति, तस्य निषिद्धत्वात्। न चासतः कार्यस्य विज्ञानं न ग्राहकम् , असत्यप्यक्षादिबुद्धेः प्रवृत्तः, अन्यथा कथं कार्यार्थप्रतिपादिका चोदना भवेत् । किञ्च यदि सत्येव कार्ये कारणव्यापारस्तदोत्पन्नेऽपि घटादिकार्थे कारणव्यापारादनवरतं तदुत्पत्तिप्रसक्तिः, 20 तत्सत्त्वाविशेषात् । अभिव्यक्तिमात्रेण व्यापारविश्रामोऽपि न युक्तः, असत्यामभिव्यक्ती कार्ये इव कारणव्यापारस्य स्वीकारायोगात् , स्वसमयविरोधादिति ॥ अथ विद्यमानात् कारणात् कार्यमिति सत्कार्यवादः, असतो हेतुत्वायोगात् , अन्यथा शशशृङ्गादितोऽपि पदार्थोंत्पत्तिप्रसङ्गः, कार्यकालेऽत्यन्ताभावप्रागभावयोरसत्त्वेनाविशेषात् , मैवम् , प्राक्तनरूपापरित्यागे सतोऽपि कारणस्य प्राक्तनावस्थावत् कार्य प्रतिहेतुत्वासम्भवात् , व्यापारसम्बन्धाद्धेतुतेति चेन्न, तद्व्यापार प्रत्यप्यपरव्यापारवत्पदार्थस्य हेतुत्वे तत्रापि व्यापारस्यान्यतथाविधपदाथेहेतुकत्वादनवस्थापातात् , तथा चानन्तव्यापारपरम्पराया न पर्यवसानं यावत् कस्यचिदन. वस्थानादसतः कारणात् कार्योत्पत्तिः स्यात् , न च कारणस्वरूपमेव व्यापारस्तत्काल एवं च कार्य नातोऽनवस्थेति वाच्यम् , कारण समानकाले कार्योत्पत्तिप्रसङ्गेन सव्येतरगोविषाणवत् कार्यकारणभावानुपपत्तेः । कार्यकाले कारणस्याभावे चिरविनष्टादिव तत्कालविनाशि. "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy