SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ सदायकान्तवादमखनम् । सोपानम् ] तस्य कार्यता, तच्च कार्यशून्य पदार्थान्तरं कारकाभिमतात् अन्यदपि च तत्प्रागभावस्वभावं प्राप्त तत्सम्बन्धेन च घटादेः शशशृङ्गादिव्यवच्छेदेन कार्यताऽभ्युपगतेति सूत्रपिण्डकार्यताऽपि घट. स्यैवं भवेत् । तदन्वयव्यतिरेकाभावान्न तत्कार्यतेति चेन्न, तस्य तत्रासत्व निबन्धनत्वात् । न वा प्रागभावः प्रत्यक्षादिग्राह्यः, मृत्पिण्डस्वरूपमात्रस्यैव तत्र प्रतिभासनात् । न च कारणस्वरूपमेव प्रागभावो निर्विशेषणस्य स्वरूपमात्रस्य कार्येऽपि सद्भावात्तस्यापि प्रागभावरूपताप्रसक्तः, अथ 5 कार्यान्तरापेक्षया तस्यापि प्रागभावरूपता कारणस्वभावाऽभ्युपगम्यत एव, न, कारणाभिमतापेक्षयापि तद्रूपताप्रसक्तः । तथाप्रतीत्यभायान्न तद्रूपतेति चेन्न, अनपेक्षितवस्तुस्वरूपात् प्रतीतिमात्राद्वस्तुव्यवस्थाऽयोगात् , ततो मृत्पिण्डादिरूपतया वस्तु गृह्यतेऽध्यक्षादिना न पुनस्तव्यतिरिक्तकारणादिरूपतया, तस्य तत्राप्रतिभासनात् , प्रतिभासनेऽपि विशिष्ट कार्यापेक्षया कारणस्वस्य प्रतिपत्तौ कार्यप्रतिभासमन्तरेण तत्कारणत्वस्याप्रतीतेः, असतः कार्यस्य तदानीम- 10 प्रतिभासनात् प्रत्यक्षस्यासदर्थप्राहकत्वेन भ्रान्तताप्रसक्तेः तदा तत्कार्यस्य सस्वासक्तिः स्यादिति कथमसति कारणव्यापारः प्रतीयेत, तन्न युक्तमसतः कार्यत्वम् ।। नाप्यसत्कारणं कार्यम् , कारणस्य तदानीमभावे तस्य तत्कृतत्वायोगात् , क्षणिकस्य कारणस्य स्वभावमात्र. व्यवस्थितेरन्यत्र व्यापारायोगात् । न च तदनन्तरं कार्यस्य भावात् प्राग्भावित्वमात्रमेव कारणस्य व्यापार इति वाच्यम , सर्वभावेषु तत्पूर्वकालभावित्वस्य सत्त्वेन तत्कारणत्वा- 15 पत्तेः, तदनन्तरं विवक्षितकार्यस्योदयात् । न च सर्वभावक्षणाभावेऽपि तद्भावान्न तस्य सत्कार्यत्वमिति युक्तम् , विवक्षितक्षणाभाव एव विवक्षितकार्य सद्भावात् , सर्वत्र चाविशिटत्वात् । विशिष्टभावक्षणधर्मानुविधानात्तस्य तत्कार्यताव्यवस्थेति चेन्न, सर्वथा तद्धर्मानुविधाने तस्य कारणरूपतापत्तेः, तत्प्राक्कालभावितया तत्कार्यताव्यतिक्रमात् , कथञ्चित्तद्ध. मानुविधाने चानेकान्तवादापन्तेरसत्कारणं कार्यमित्यभ्युपगमव्याघातात् , सन्तानापेक्षया 20 कार्यकारणभावे तु तस्य पूर्वापरक्षणव्यतिरेकेण सद्भावे कार्यकारणरूपस्य तस्यैवार्थक्रियासामर्थ्यात् सत्त्वं स्यान्न तु क्षणानामर्थक्रियासामर्थ्यविरहात् , अव्यतिरेकेण च सद्भावे सैव कार्यकारणभावानुपपत्तिः । अथ सन्तानस्य क्षणसम्बन्धित्वात्तस्य कार्यकारणभावे क्षणानामपि स्यादिति चेन्न सन्तानक्षणयोभिन्नयोः कार्यकारणभावादन्यस्य सम्बन्धस्याभावेन सन्तानस्य निखिलक्षणानन्तरभावित्वेन सर्वसंतानताप्रसक्तिःस्यात् , किञ्च तस्यापि नित्यत्वे क्षण कार्यत्वे च सत्कार्यवादग्रसक्तिः, क्षणिकत्वे चान्वयाप्रसिद्धेस्तस्य तत्कार्यत्वाप्रसिद्धिः, व्यतिरेकश्व कार्यकारणभावनिबन्धनक्षणिकपक्षे न सम्भवतीति प्रतिपादितमेव । किश्च क्षणिकभावाभ्युपगमवादिनो यदि भिन्नकार्योदयात्कारणस्य सत्त्वमभिमतं तदा तत्कार्यस्याप्यपरकार्योदयात् सत्त्वसिद्धिरित्यनवस्थापत्तेर्न क्वचित् सत्त्वव्यवस्था स्यादिति कुतस्तद्वयवच्छेदेनासत् कार्य "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy