SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ : ३१०: सम्मतितत्त्वसोपाने [ त्रयस्त्रिंशम् स्यात् । तथा जगदनुपकार्योपकारकभूतमिति शास्त्रप्रणयनमसङ्गतं भवेत् , तदेवं नित्यसम. वायकल्पनमसमञ्जसमिति संक्षेपः ।। इति तपोगन्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितत्त्वसोपाने कणादोक्तशेय निरसनं नाम द्वात्रिंशं सोपानम् ।। 10 सदायेकान्तवादभञ्जनम् । अन्योन्यनिरपेक्षनयाश्रितस्य मिथ्यात्वाविनाभूतत्वमेवाह जे संतवायदोसे सक्कोलूया भणंति संखाणं । संखा य असवाए तेसिं सव्वे वि ते सच्चा ॥ ५० ॥ यान् सद्वाददोषान् शाक्यौलूक्या भणन्ति सांख्यानाम् । सांख्याश्वासद्वादे तेषां सर्वेऽपि ते सत्याः ॥ छाया ॥ यानिति, द्रव्यास्तिकाभ्युपगतपदार्थाभ्युपगमे सांख्यानामेकान्तसद्वादपक्षे क्रियागुण15 व्यपदेशोपलब्ध्यादिलक्षणान् यान् दोषान् शाक्यौलूक्या वदन्ति, ते सर्वेऽपि तेषां सत्याः, ते च दोषा एवं सत्याः स्युः यद्यन्यनिरपेक्षनयाभ्युपगतपदार्थप्रतिपादकं तच्छास्त्रं स्यात, कार्यावस्थातः प्रागपि तेषामेकान्तेन सत्त्वनिबन्धनत्वात् , अन्यथा कथंचित्सत्त्वेऽनेकान्तवादापत्तेर्दोषाभाव एव स्यात् । एवं सांख्या अप्यसत्कार्यबाददोषानसदकरणादीन यान् वद न्ति ते सर्वे सत्या एव, एकान्तासति कारणव्यापारासम्भवात् , अन्यथा शशशृङ्गादेरपि 20 कारणव्यापारादुत्पत्तिः स्यात् । अथ कारणावस्थायां न शशशृङ्गस्यासद्भावादनुत्पत्तिः किन्तु कारणाभावात् , घटादेस्त्वसतोऽपि कारणसद्भावादुत्पत्तिरिति चेन्न शशशृङ्गस्य हि कारणाभावस्तस्यात्यन्ताभावाद्वाच्यः तदभावश्च कारणाभावादित्यन्योन्याश्रयः स्यात् । किञ्च घटादीनां मृत्पिण्डावस्थायामसत्त्वे कुतः कारणसद्भावः, सति कारणव्यापारासम्भवात् , तत्र प्राग सत्त्वादेव कारणसद्भाव इति चेन्न, तत्र घटस्य सत्त्वे प्रागनवस्थायोगात् , असत्त्वे शशशृ. 25 ङ्गस्येव तदनुपपत्तेः । न च घटस्योत्पत्तिदर्शनात् प्राक् अभावो न शशशृङ्गस्येति वाच्यम् , अन्योन्याश्रयात् , घटस्य हि पूर्वमभावसिद्धावुत्पत्तिसिद्धिस्तस्याः सिद्धौ तसिद्धिर्नान्य. थेति । न च कारणस्य कार्यशून्यतालक्षणप्रागभावः प्रागेव सिद्ध इति वाच्यम् , अकारणस्यापि कायेशून्यतोपलम्भेन तत्सम्बन्धाद्धटस्य तत्कार्यताप्रसक्तेः, यस्य हि प्रागभावित्वं "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy