SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] कणादोक्तशेयनिरसनम् । राधेयभावनियमो न सङ्गच्छते, न च द्रव्य एवं द्रव्यत्वमाश्रितमिति व्यपदेशाव्यङ्गयव्यअकशक्तिप्रतिनियमाद्वा तन्नियमः, समवायबलेनैव तद्व्यवस्थापनीयतया तस्य सर्वत्राविशिष्टस्वात् , न हि ज्ञानोत्पादनयोग्यस्वभावोत्पादनाव्यङ्गयव्यञ्जकभाव इष्टः, नित्यानामपि सत्तादीनां समवायस्येष्टतया तदुत्पत्तेरयोगात् । दधिकुण्डसंयोगदृष्टान्तोऽप्यस्मान् प्रत्यसिद्ध एव संयोगस्य निषिद्धत्वात् , तत्सद्भावेऽपि चायं पर्यनुयोगस्तत्रापि तुल्यः । किञ्च नेहप्रत्यया- 5 समवायस्य सिद्धिरनैकान्तिकत्वात् , इह समवायिषु समवाय इतीहप्रत्ययस्यापरसमवाया. निबन्धनत्वात् , अन्यथाऽनवस्थाप्रसङ्गात् । अपि च कारणानुपलब्ध्या यदि नित्यः समवायः स्यात्तर्हि घटादीनामपि नित्यताप्रसङ्गः, घटादीनां समवायास्तित्वादेव स्वाधारेष्ववस्थानात्समवायस्य नित्यत्वे तेषामप्यवस्थानात् । न च सत्यपि समवाये घटाचारम्भकावयवानां विनाशाद्विभागाद्वा सहकारिकारणान्तराभावाद्विरोधिप्रत्ययोपनिपाताच न घटा- 10 दीनां नित्यतेति वाच्यम् , आरम्भककपालाद्यवयवानामपि स्वावयवेषु सर्वदा सद्भावेन कपालादेविनाशविभागानुपपत्तेः । तद्विनाशाद्यभ्युपगमे तु समवायविनाशस्यापि नैयत्यं भवेत् सम्बन्धिनिवृत्तौ सम्बन्धसद्भावस्य दुर्घटत्वात् , नष्टसंयोगिसंयोगवन्न नित्यः समवायः स्यात् । न च सर्वसम्बन्धिविनाशो न कचिदस्ति, अन्ततः परमाणूनां सत्त्वात् , यत्किञ्चित्सम्बन्धिविनाशे चापरसम्बन्धिनिबन्धनावस्थानं समवायस्य भविष्यतीति कथम. 15 नित्यतेति वाच्यम् , अनया रीत्या संयोगस्यापि नित्यत्वप्राप्तेः । न च संयोगस्य प्रतिसंयोगिभेदादनित्यत्वम् , समवायस्तु इहप्रत्ययनिबन्धनोऽभिन्नत्वादेक एवेति वाच्यम् , यतो योऽयं घटस्य समवायस्तदवयवकपालेषु वृत्यात्मकः स एव तेषु विनद्वेषु सम्बन्ध्यन्तरेष्वस्ति, आहोस्विदन्य एव, प्रथमे प्रागवस्थावदप्रच्युतवृत्तित्वाद्धटादयोऽवस्थिता एव स्युः, अन्यथा तेषामनवस्थितवृत्तित्वान्नावस्थितिः समवायस्य प्राप्नोति, 20 तस्य वृत्त्यात्मकत्वात् , अन्यथा तस्य तद्रूपत्वानुपपत्तेः, स्वतंत्रस्य तदनुपकारिणः वृत्तिः समवाय इति वा नामकरणे संज्ञामात्रमेव भवेत्, न वस्तुतथाभावः, तथा चाविनष्टसम्बन्ध्यवस्थायामपि घटादयो न समवायसद्भावबलात्स्वाश्रयवृत्ताः सिद्धयेयुः, पश्चादिव परमार्थतो वृत्त्यभावात् । द्वितीयपक्षे तु संयोगादिवत्समवायबहुत्वं प्राप्नुयात् , तथा चाभ्युपगमहानिर्भवेत् , नित्यत्वे च समवायस्याङ्गीक्रियमाणे स्वकारणसमवायस्य स्वसत्तासमवा- 25 यस्य च जन्मशब्दवाच्यस्य सर्वदा सद्भावात् कार्यजन्मनि कचिदपि कारणानां साफल्यं न स्यात् , तथा चाध्यक्षा दिविरोधः, तन्वादेः पटादिकार्यजनकत्वेनाध्यक्षादिना प्रतीते, समवायलक्षणस्य जन्मनो नित्यतया क्रमासम्भवाद्भावानां क्रमोत्पत्तिरुपलभ्यमाना विरुद्धा च "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy