________________
: ३०८ :
[ द्वात्रिंशम्
रूपादिषु साधारणशक्तिविशेषप्रतिपादनेच्छया तदन्यरूपादिव्यवच्छेदेन घटादिशब्दस्य सङ्केतः, रूपादिशब्दस्य तु प्रत्येकमसाधारणचक्षुर्ज्ञानादिकार्योत्पादनसामर्थ्यद्योतनाय समयकरणम्, अतो घटादिशब्दो न रूपादीन् भेदानाक्षिपति तत्सामानाधिकरण्याभावात् । रूपादिशब्दाश्व घटपटादिसर्वावस्वरूपादिवाचका इति रूपादिशब्देभ्यः केवलेभ्यो विशेषाप्रतीतेस्तत्प्रतिपादनाय 5 घटे रूपादय इत्येवमुभयपदप्रयोगः क्रियते, तथा च घटात्मकास्त इति रूपादयः पटादिव्यवच्छेदेन प्रतीयन्ते, घटशब्दोऽपि शुक्लनीलपीत चलनिश्चलादि सर्वावस्थं ब्रूतेऽतो न केव लाद्विशेषप्रतीतिर्घटे शुकुं रूपमित्यभिधाने तु तदन्यरूपादिव्यवच्छेदेन प्रतिपत्तिर्भवति, अतस्तत्प्रयोगः । तस्मात्सङ्केतवशादिह घटे रूपादय इत्यादिज्ञानं तथाभूतपदार्थनिबन्धनं न तु समवायनिबन्धनम्, चटरूपादिसमवायानां परस्परं भेदस्योपलब्ध्यविषयत्वात् तस्मात् 10 परोपन्यस्तो हेतुरनैकान्तिकः प्रतिज्ञा चोक्तन्यायेनानुमानबाधितेति कथं समवायसिद्धिः । किन यद्येक एव समवायस्तर्हि कपालादिष्वपि पटादेः सद्भावप्रसङ्गः यथाहि समवायबलेन तुन्तुषु पट आश्रितस्तथैव तस्यैव समवायस्य कपालादौ सत्वेन तत्र पटोऽस्तीति बुद्धिः कुतो न भवेत्, समवायस्यैकत्वेन सर्वत्राविशेषात् तथा च द्रव्यगुणकर्मणां द्रव्यत्व गुणत्व कर्मत्वादिविशेषणैः सम्बन्धस्यैकत्वात् पदार्थपञ्चकस्य विभागो न भवेत् । 18 न च तस्यैकत्वेऽपि द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वमिति प्रतिनियताधाराधेयनियमान पदार्थसङ्कर इति वाच्यम्, एवं तर्हि समवायस्य प्रतिपदार्थं भिन्नत्वापत्तिः स्यात् । न च कुण्डध्नो: संयोगस्यैकत्वेऽपि यथाssधाराधेयप्रतिनियमस्तथा तस्यैकत्वेऽपि व्यङ्गव्यञ्जकशक्तिभेदात् आधाराधेयप्रतिनियमसम्भवेन न पदार्थ पञ्चकस्य सङ्कीर्णता, समवायनिमित्तस्येति प्रत्ययस्य सर्वत्रैकरूपतया दर्शनादेकत्वसिद्धेः द्रव्यत्वादीनाञ्च प्रति20 नियताधारेष्वेव भावात्, प्रमाणनिबन्धनत्वाच प्रमेयव्यवस्थाया इति वाच्यम्, अस्माकं रूपत्वादीनां रूपादिष्वाधेयनियमसिद्धेः, भवताञ्चैकं समवायं सर्वत्राभ्युपगच्छतां स दुर्घट इत्यादिप्रसङ्गापादनस्यास्माभिः क्रियमाणत्वात् । द्रव्ये एव द्रव्यत्वादीनां यो नियम इष्यते स- समवायबलादेव, तस्य च द्रव्यत्वादेर्यस्समवायः स एव गुणादिष्वप्यस्ति, गुणत्वजात्या तस्य सम्बद्धत्वादिति तथा च कथं न पदार्थसङ्करप्रसङ्गः, द्रव्यत्वस्य यः समवायः स न 25 गुणादाविति तर्हि संयोगवत्प्रत्याधारं तस्य भेदः प्रसज्येत । स्वरूपतः समवायस्याभेदेऽपि द्रव्यत्वादीनां भेदाद्भेद इति चेत्समवायस्याभेदे कुतो द्रव्यत्वादीनां विशेषणानां भेदः, यदि स्वत एव तदाssधेयतानियमोऽपि स्वत एवं स्यात् किं समवायेन । द्रव्यत्वादीनां प्रतिनियताधारेष्वेव वृत्तेरन्यत्र तस्य व्यतिरेक इत्युक्तिरपि न युक्ता, अचिकलनिमित्तसद्भावे कार्यस्याभावायोगादन्यथातत्कार्यत्वप्रसङ्गात् एवञ्च धियां व्यतिरेकायोगात्तद्वशादाधा
सम्मतितत्त्व सोपाने
"Aho Shrutgyanam"