SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ सोपानम् ) कणादोक्तशेयनिरसनम् । वात्, एवं प्रदीपदृष्टान्तोऽप्यसङ्गतः पटादीनां प्रदीपादिपदार्थान्तरोपाधिकस्य स्वरूपान्तरस्यो. त्पत्तेः प्रकृते च तदसम्भवात् । तथाऽनुमानबाधितश्च विशेषसद्भावाभ्युपगमः, तथाहि विवादाधिकरणेषु भावेषु विलक्षणप्रत्ययः तद्व्यतिरिक्तनिबन्धो न भवति, व्यावृत्तप्रत्ययत्वात् , विशेषेषु व्यावृत्तप्रत्ययवदिति, तन्न विशेषपदार्थसद्भावः, तत्साधकप्रमाणाभावात् , बाधकोपपत्तेश्च । अयुतसिद्धानामाधार्याधारभूतानामिहबुद्धिहेतुर्यः सम्बन्धः स समवायः 5 स चायमिह तन्तुषु पट इत्यादीहबुद्धिविशेषतो द्रव्यादिभ्योऽर्थान्तरत्वेनावगम्यते, यथाहि सत्ताद्रव्यत्वादीनां स्वाधारेष्वात्मानुरूपप्रत्ययकर्तृत्वात्स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावस्तथा समवायस्यापि पञ्चसु पदार्थेषु इह तन्तुषु पट इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम् , इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम् , इह द्रव्येष्वन्त्या विशेषा इत्यादिप्रत्ययदर्शनान् पञ्चभ्यः पदार्थेभ्योऽर्थान्तरत्वं 10 गम्यते, यो येषु यदाकारविलक्षण प्रत्ययः स तदर्थान्तरनिबन्धनः, यथा देवदत्ते दण्डीति प्रत्ययः, तथा चायं पञ्चसु पदार्थेष्विहप्रत्यय इति स्वभावहेतुः, निबन्धनमन्तरेण भवतो नित्यं सत्तादिप्रसङ्गो बाधकं प्रमाणम् , इत्थं वैशेषिकाणां मतेन समवायोऽनुमेयः, नैया. यिकमतेन तु इहबुद्धिप्रत्यक्षगम्य एव, अक्षव्यापारानन्तरमिह तन्तुषु पट इत्यादिप्रत्ययोत्पत्तेः, स चायं समवायो न संयोगवद्भिन्नः किन्तु सर्वत्रैक एव तल्लिङ्गाविशेषाद्विशेष- 15 लिङ्गाभावाञ्च, कारणानुपलम्भाच्च नित्य इति, तदेतन्मतं स्वसमयाहितवासनाप्रकल्पितमेव न हि लोके इह तन्तुषु पट इति बुद्धिरुत्पद्यमानत्वेन सिद्धति धर्म्यसिद्धराश्रयासिद्धो हेतुः, ययोहि भिन्नत्वमुपलक्षितं तयोरेवाधाराधेयभावे सतीह बुद्धिरुत्पद्यमाना लोके दृष्टा, यथेह कुण्डे दधीति, न च तन्तुपटयोभिन्नत्वमुपलक्षितमिति कथं तत्रेहबुद्धिर्भवेत् , न हि स्वे. च्छावशात् किश्चित्कार्यमुपकल्प्य तदनभ्युपगन्तारं परं प्रति तत्कारणपर्यनुयोगः कत्तं युक्तः, 20 न वेच्छानां वस्तुस्वभावानुरोधः, स्वातंत्र्यवृत्तित्वादासाम् , नातो वस्तुसिद्धिरनवस्थाप्रसङ्गात् भवदुपकल्पितस्यैव वस्तुनः कैश्विदन्यथाऽपि कल्पयितुं शक्यत्वात् । न वा लोके इह तन्तुषु पट इति धीः सिद्धा, किन्तु वृक्षे शाखा, पर्वते शिलेत्येवं विपर्ययेणैव लोके बुद्धेरुत्पाददर्शनात् । न चेयं समवायनिमित्ता किन्तु विवक्षितशाखाव्यतिरिक्तस्कन्धादि विशिष्टसमुदायनिबन्धनैव, एवमिह घटे रूपरसगन्धस्पर्शा इत्यादि बुद्धयोऽपि घटस्वभावत्वमेवैषामवगमयन्ति, बहुषु 25 १ सम्बन्धप्रत्यक्षे यावदायप्रत्यक्षस्य कारणत्वोपगमेन समवायाश्रयानां यावतां परमायाका शादीनामप्रत्यक्षतया समवायो न प्रत्यक्ष इति तेषामभिप्रायः, नैयायिकस्तु संयोगप्रत्यक्ष एव यावदाश्रयप्रत्यक्षस्य का. रणतया समवायप्रत्यक्षे च तस्याहेतुत्वात् , विशिष्टबुद्धिविषययत्किञ्चिदाश्रय प्रत्यक्षा तस्य प्रत्यक्षतेति स्वीकरोति इति भावः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy