________________
सम्मतितत्त्वसोपाने
[ चतुस्त्रिंशम् योगात्, सदादेरपि घटायाकारादत्यन्तभेदे निराकारतया अत्यन्ताभावस्येवोपलम्भविषयस्वायोगात् , ज्ञेयत्वप्रमेयत्वादिधर्माणामपि सदादिधर्मेभ्यो भेदेऽसत्त्वम् , सदादेश्च तेभ्यो भेदेऽज्ञेयत्वादसत्त्वमेव, ततः सदादिरूपतयोपलभ्यमानत्वाद्धटस्य तेभ्योऽभिन्नताऽभ्युपगन्तव्या, प्रमेयव्यवस्थितेः प्रमाणनिबन्धनत्वात् । यत् पुनः पृथुबुनोदराद्याकारतया पूर्व 5 सदादिर्नासीत् ततोऽसौ तेभ्योऽन्यः, घटादिरूपतया पूर्व सदादेरनुपलम्भात, प्रागपि
तद्रूपस्य सदादौ सत्त्वेऽनुपलम्भायोगात्, दृश्यानुपलम्भस्य चाभावाच्यभिचारित्वात् , तदतद्रूपतायाश्च विरोधाभावात , प्रतीयमानायां तदयोगात् , अबाधितप्रत्ययस्य च मिथ्यास्वासम्भवात् ।। ५२ ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितस्वसोपाने सदायेका
न्तवादभञ्जनं नाम त्रयस्त्रिंशं सोपानम् ॥
10
कालाद्येकान्तवादभञ्जनम् । 15 सदाथेकान्तयादवत् कालायेकान्तवादेऽपि मिथ्यात्वमेवेत्याह-~
कालो सहाव णियई पुवकयं पुरिसकारणेगंता। मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥ ५३ ।।
कालः स्वभावनियती पूर्वकृतं पुरुषकारणैकान्ताः।
मिथ्यात्वं त एव तु समासतो भवंति सम्यक्त्वम् ॥ छाया ॥ 20 काल इति । कालस्वभावनियतिपूर्वकृतपुरुषकारणरूपा एकान्ताः सर्वेऽप्येकका मिथ्यात्वम् , त एव समुदिताः परस्पराजहद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्त इत्यर्थः ।
तत्र काल एव एकान्तेन जगतः कारणम् , सर्वस्य हि शीतोष्णवर्षवनस्पतिपुरुषादेर्जगतः उत्पत्तिस्थितिविनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगतिगमनागमनादौ च कालः
कारणम् , तं विनाऽन्यकारणत्वेनाभिमतभावसद्भावेऽपि सर्वस्यास्याभावात् , तत्सद्भावे च 25 भावात् , तदुक्तम् ‘कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागति
कालो हि दुरतिक्रमः' [ महाभार. आदिप० अ० १, श्लो० २७३ ] इति कालवादिनः प्राहुः, असदेतत् , तत्सद्भावेऽपि कदाचिदृष्ट्यादेरदर्शनात् । न च कालविशेषाभावात् तद. भवनमिति वाच्यम् , नित्यैकरूपस्य तस्य विशेषाभावात् , विशेषे वा तजननाजननस्वभाष.
"Aho Shrutgyanam"