________________
सम्मतितस्वसोपाने
[ षत्रिंशम्
हेतुविषयबाधकत्वम्, स्वार्थासम्भवे तयोरभाव इति चेत्, हेतावपि सति त्रैरूप्ये तत्समानमित्सावपि तयोर्विषये बाधकः स्यात्, दृश्यते हि चन्द्रार्कादिस्थैर्यग्राह्यध्यक्ष देशान्तरप्राप्तिलिङ्गप्रभवतद्वत्यनुमानेन बाध्यमानम् । अथ तत्स्थैर्यग्राह्यध्यक्षस्य तदाभासत्वाद्वाध्यत्वं तर्हि एकशाखाप्रभवत्वानुमानस्यापि तदाभासत्वाद्वाध्यत्वमित्यभ्युपगन्तव्यम् । न चैवमस्त्विति 5 वक्तव्यम्, तस्य हि तदाभासत्वं किमध्यक्षबाध्यत्वात् उत त्रैरूप्यवैकल्यात्, नाद्यः तदाभासत्वेऽध्यक्ष बाध्यत्वं ततश्च तदाभासत्वमितीतरेतराश्रयदोषप्रसङ्गात्, एका सिद्धावन्यतराप्रसिद्धेः । नापि द्वितीयः, त्रैरूप्यसद्भावस्य तत्र परेणाभ्युपगमात्, अनभ्युपगमे वा तत एव तस्यागमकत्वोपपत्तेरध्यक्ष बाधाभ्युपगमवैयर्थ्यम् । न चाबाधितविषयत्वं हेतुलक्षणमुपपन्नम्,
"
रूपयन्निश्चितस्यैव तस्य गमकत्वाङ्गतोपपत्तेः न च तस्य निश्चयः सम्भवति, स्वसम्बन्धिनोऽ 10 बाधितत्वनिश्वयस्य तत्कालभाविनोऽसम्यगनुमानेऽपि सद्भावात्, उत्तरकालभाविनोऽसिद्धत्वात्, सर्वसम्बन्धिनस्तादात्विकस्योत्तरकालभाविनश्चासिद्धत्वात् न ह्यग्शा सर्वत्र सर्वदा सर्वेषामत्र बाधकस्याभाव इति निश्चेतुं शक्यम्, तन्निश्चयनिबन्धनस्यासत्त्वात्, नानुपलम्भस्तन्निबन्धनः, सर्वसम्बन्धिनस्तस्यासिद्धत्वात्, आत्मसम्बन्धिनोऽनैकान्तिकत्वात्, न संवादस्तन्निबन्धनः, प्रागनुमानप्रवृत्तेस्तस्यासिद्धेः उत्तरकालं तत्सिद्ध्यभ्युपगमेऽन्योन्या15 श्रयदोषप्रसक्तेः, अनुमानात् प्रवृत्तौ संवादनिश्चयः, ततश्चाबाधितत्वावगमेऽनुमानप्रवृत्तिरिति । न चाविनाभावनिश्चयादष्यबाधितविषयत्वनिश्चयः, पञ्चलक्षणयोगिन्यविनाभावपरिसमाप्तिवादिनामवाधितविषयत्वानिश्चये ऽविनाभावनिश्चयस्यैवासम्भवात् यदि च प्रत्यक्षागमत्राधितकर्म निर्देशानन्तरप्रयुक्तस्यैव कालात्ययापदिष्टत्वं तर्हि मूर्खोऽयं देवदत्तः, त्वत्पुत्रत्वात्, उभयाभिमतत्वत्पुत्रवदित्यस्यापि गमकता स्यात्, न हि सकलशास्त्र व्याख्यातृत्व लिङ्गज20 नितानुमानबाधितविषयत्वमन्तरेणान्यदध्यक्ष बाधित विषयत्वमागमबाधितविषयत्वं वाङ्गमकतानिबन्धनमस्यास्ति । न चानुमानस्य तुल्यबलत्वान्नानुमानं प्रति बाधकता सम्भविनीति वक्तव्यम्, निश्चित प्रतिबन्धलिङ्गसमुत्थस्यानुमानस्यानिश्चित प्रतिबन्धलिङ्गसमुत्थेनातुल्यबलस्वात् । अत एव न साधर्म्यमात्राद्धेतुर्गमकः, अपि त्वाक्षिप्तव्यतिरेकात् साधर्म्यविशेषात्, नापि व्यतिरेकमात्रात् किन्त्वङ्गीकृतान्वयात्तद्विशेषात्, न वा परस्पराननुविद्धोभयमात्रादपि, किन्तु परस्परस्वरूपाजहद्वृत्तिसाधर्म्य वैधर्म्यरूपात् न च प्रकृतहेतौ प्रतिबन्धनिश्चायक प्रमाणनिबन्धनं त्रैरूप्यं निश्चितम् तदभावादेवास्य हेत्वाभासत्वम्, न पुनरसत्प्रतिपक्षत्वा बाधितविषयत्वापररूपविरहात् । यदा च पक्षधर्मत्वाद्यनेक वास्तव रूपात्मकमेकं
25
३ ३२८
१ प्रत्यक्षागमयोः स्वप्रतिपाद्यविषयविरहे सति असम्भवः, अनुभूयेते च तावतस्तद्विषयोऽवश्यम्भावी हेतुप्रतिपाद्य विषयोऽतो बाधितो भवतीति तयोर्बाधकत्वमिति भावः ॥
" Aho Shrutgyanam"