SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ सोपानम् हेत्वाभालविमर्शनम् । लिगमभ्युपगमविषयस्तदा तत्तथाभूतमेव वस्तु प्रसाधयतीति कथं न विपर्ययसिद्धिः, न च साध्यसाधनयोः परस्परतो धर्मिणश्चैकान्तभेदे पक्षधर्मत्वादियोगो लिङ्गस्योपपत्तिमान् , सम्बन्धासिद्धः, हेतोश्च पक्षधर्मवादित्रैरूप्याभ्युपगमे कथं न परवादाश्रयणम् , एकस्य हेतो. रनेकधर्मात्मकस्याभ्युपगमात् । न च यदेव पक्षधर्मस्य सपक्ष एव सत्त्वं तदेव विपक्षात् सर्वतो व्यावृत्तत्वमिति वाच्यम् , अन्वयव्यतिरेकयोर्भावाभावरूपयोः सर्वथा तादात्म्यायो• 5 गात् , तत्त्वे वा केवलान्वयी केवलव्यतिरेकी वा सर्वो हेतुः स्यात् , न त्रिरूपवान् , ब्यतिरेकस्य चाभावरूपत्वेन हेतोस्तद्रूपत्वेऽभावरूपो हेतुः स्यात् , न चाभावस्य तुच्छरूपत्वात् स्वसाध्येन धर्मिणा वा सम्बन्ध उपपत्तिमान , न च विपक्षे सर्वत्रासत्त्वमेव हेतोः स्वकीयं रूपं व्यतिरेको न तुच्छाभावमात्रमिति वक्तव्यम् , यदि हि सपक्ष एव सत्त्वं विपक्षाच्यावृत्तत्वं न ततो भिन्नमस्ति तदा तस्य तदेव सावधारणं नोपपत्तिमत् , वस्तुभूता- 10 न्याभावमन्तरेण प्रतिनियतस्य तस्य तत्रासम्भवात् । अथ ततस्तदन्यद्धर्मान्तरं तर्हि एकरूपस्यानेकधर्मात्मकस्य हेतोस्तथाभूतस्य साध्याविनाभूतत्वेन निश्चितस्यानेकान्तात्मकव. स्तुप्रतिपादनात् कथं न परोपन्यस्त हेतूनां सर्वेषां विरुद्धता, एकान्तविरुद्ध नानेकान्तेन व्याप्तत्वात् । किञ्च परैः सामान्यरूपो वा विशेषरूपो वा हेतुरुपादीयते, आये किं स व्यक्तिभ्यो भिन्नोऽभिन्नो वा इदं सामान्यमयं विशेषोऽयश्च तद्वानिति वस्तुत्रयोपलम्भाभावान भेदाभ्युप- 13 पगमो युक्तः, न च समवायवशात् परस्परं तेषामनुपलक्षणमिति वक्तव्यम् , भेदग्रहमन्तरेण इहेदमवस्थितमिति समवायबुद्ध्यत्पत्त्यसम्भवात् । किश्च नागृहीत विशेषणा विशेष्ये बुद्धिरिति काणादानां सिद्धान्तः, न च संस्थानभेदावसायमन्तरेण सामान्यनिश्चयस्योपपत्तिः, दूराद्धि पदार्थस्वरूपमुपलभमानो नागृहीतसंस्थानभेदोऽश्वत्वादिसामान्यमुपलब्धुं शक्नोति, न च. संस्थानभेदावगमस्त दाधारोपलम्भमन्तरेण संभवतीति कथं नान्योऽन्याश्नयः, पदा- 20 थग्रहणे सति संस्थानभेदावगमः, तत्र च सामान्यावबोधः तस्मिश्च सति पदार्थस्वरूपावगतिरिति । किश्शाश्वत्वादिसामान्यस्य स्वाश्रयसर्वगतत्वे कोदिव्यक्तिशून्यदेशे उपजायमानव्यक्तरश्वत्वादिसामान्ययोगो न भवेत् , व्यक्तिशून्यदेशे सामान्यस्यानवस्थानात् , व्यक्त्यन्तरादनागमनाच ततः सर्वसर्वगतं तदभ्युपगन्तव्यमिति कर्कादिभिरिव शाबलेयादिभिरपि तदभिव्यज्येत, कर्कादिव्यक्तीनामेव तदभिव्यक्तिसामर्थ्य यया प्रत्यासत्या ता एव तत्स्वा- 25 स्मन्यवस्थापयन्ति तयैव ता एवैकाकारपरामर्शप्रत्ययमुपजनयिष्यन्तीति किमपरतद्भिन्नसामान्यप्रकल्पनया । न च स्वाश्रयेन्द्रियसंयोगात् प्राक् स्वज्ञानजननेऽसमर्थ सामान्यं तदा परैरनाधेयातिशयं तमपेक्ष्य स्वावभासि झानं जनयति, प्राक्तनासामर्थ्यस्वभावापरित्यागे "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy