SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सम्मतितरवसोपाने [ पदत्रंशम् स्वभावान्तरानुत्पादे च तदयोगात्, तथाभ्युपगमे च क्षणिकताप्रसक्तेः । न च स्वभावान्तरस्योपजायमानस्य ततो भेदा, सम्बन्धासिद्धितः तत्सद्भावेऽपि प्राग्वत्तस्य स्वावभासिज्ञानजननायोगान्न तत्प्रतिभास: स्यात्, तथा च सामान्यस्य व्यक्तिभ्यो भेदेनाप्रतिभासमानश्या सिद्धत्वात्कथं हेतुत्वम् । किञ्च प्रतिव्यक्ति सामान्यस्य परिसमाप्तत्वा5 भ्युपगमादेकस्यां व्यक्तौ विनिवेशित स्वरूपस्य तदैव व्यक्तयन्तरे वृत्त्यनुपपत्तेस्तदनुरूपप्रत्ययस्य तन्त्रासम्भवादसाधारणता च हेतोः स्यात् । यदि चासाधारणरूपा व्यक्तयः स्वरूपतस्तदा परसामान्ययोगादपि न साधारणरूपतां प्रतिपद्यन्त इति व्यर्था सामान्यप्रकल्पना, स्वतोऽसाधारणस्यान्ययोगादपि साधारणरूपत्वानुपपत्तेः, स्वतस्तद्रूपत्वेऽपि निष्फला सामान्यप्रकल्पनेति व्यक्तिव्यतिरिक्तस्य सामान्यस्याभावाद सिद्धस्तलक्षणो हेतुरिति कथं ततः 10 साध्यसिद्धिः । अथ व्यक्त्यव्यतिरिक्तं सामान्यं हेतुस्तदप्य संगतमेव व्यक्तयव्यतिरिक्तस्य व्यक्तिस्त्ररूपवद्व्यक्त्तयन्तराननुगमात् सामान्यरूपतानुपपत्तेः, व्यक्तयन्तरसाधारणस्यैव वस्तुनः सामान्यमित्यभिधानात्, तत्साधारणत्वे वा न तस्य व्यक्तिस्वरूपाव्यतिरिच्यमानमूर्त्तिरूपता, सामान्यरूपतया भेदाव्यतिरिच्यमानस्वरूपस्य विरोधात्, तन्न व्यक्तयव्यतिरिक्तमपि सामान्यं हेतुः, व्यक्तिस्वरूपवदसाधारणत्वेन गमकत्वायोगात्, अत एव न 15 व्यक्तिरूपमपि हेतु:, न चोभयं परस्पराननुविद्धं हेतु:, उभयदोषप्रसङ्गात् । न चानुभयमन्योन्यव्यवच्छेदरूपाणामेकाभावे द्वितीयविधानादनुभयस्यासत्त्वेन हेतुत्वायोगात् । बुद्धिप्रकल्पि तच्च सामान्य मवस्तुरूपत्वात्साध्ये नाप्रतिबद्धत्वादसिद्धत्वाच्च न हेतु:, तस्मात् पदार्थान्तरानुवृत्तव्यावृत्तरूपमात्मानं बिभ्रदेकमेव पदार्थस्वरूपं प्रतिपत्तुर्भेदाभेदप्रत्ययप्रसूतिनिबन्धनं हेतुत्वेनोपादीयमानं तथाभूतसाध्यसिद्धिनिबन्धनमभ्युपगन्तव्यम् । न च यदेव रूपं रूपा - 20 न्तराद्र्यावर्त्तते तदेव कथमनुवृत्तिमासादयति, यच्चानुवर्त्तते तत् कथं व्यावृत्तिरूपतामा - त्मसात्करोतीति वक्तव्यम्, भेदाभेदरूपतयाऽध्यक्षतः प्रतीयमाने वस्तुस्वरूपे विरोधासिद्धेः तस्मादेकान्तेन भिन्नसामान्यविशेषवादौ द्वावप्यसद्वादाविति सिद्धम् ॥ ५६ ॥ : 116: 25 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वर पट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितत्त्व सोपाने हेत्वाभासविमर्शनं नाम षट्त्रिंशं सोपानम् ॥ १ एकस्यां व्यक्तौ सर्वात्मना तस्य सद्भावादिति भावः । , "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy