Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 360
________________ : ३०८ : [ द्वात्रिंशम् रूपादिषु साधारणशक्तिविशेषप्रतिपादनेच्छया तदन्यरूपादिव्यवच्छेदेन घटादिशब्दस्य सङ्केतः, रूपादिशब्दस्य तु प्रत्येकमसाधारणचक्षुर्ज्ञानादिकार्योत्पादनसामर्थ्यद्योतनाय समयकरणम्, अतो घटादिशब्दो न रूपादीन् भेदानाक्षिपति तत्सामानाधिकरण्याभावात् । रूपादिशब्दाश्व घटपटादिसर्वावस्वरूपादिवाचका इति रूपादिशब्देभ्यः केवलेभ्यो विशेषाप्रतीतेस्तत्प्रतिपादनाय 5 घटे रूपादय इत्येवमुभयपदप्रयोगः क्रियते, तथा च घटात्मकास्त इति रूपादयः पटादिव्यवच्छेदेन प्रतीयन्ते, घटशब्दोऽपि शुक्लनीलपीत चलनिश्चलादि सर्वावस्थं ब्रूतेऽतो न केव लाद्विशेषप्रतीतिर्घटे शुकुं रूपमित्यभिधाने तु तदन्यरूपादिव्यवच्छेदेन प्रतिपत्तिर्भवति, अतस्तत्प्रयोगः । तस्मात्सङ्केतवशादिह घटे रूपादय इत्यादिज्ञानं तथाभूतपदार्थनिबन्धनं न तु समवायनिबन्धनम्, चटरूपादिसमवायानां परस्परं भेदस्योपलब्ध्यविषयत्वात् तस्मात् 10 परोपन्यस्तो हेतुरनैकान्तिकः प्रतिज्ञा चोक्तन्यायेनानुमानबाधितेति कथं समवायसिद्धिः । किन यद्येक एव समवायस्तर्हि कपालादिष्वपि पटादेः सद्भावप्रसङ्गः यथाहि समवायबलेन तुन्तुषु पट आश्रितस्तथैव तस्यैव समवायस्य कपालादौ सत्वेन तत्र पटोऽस्तीति बुद्धिः कुतो न भवेत्, समवायस्यैकत्वेन सर्वत्राविशेषात् तथा च द्रव्यगुणकर्मणां द्रव्यत्व गुणत्व कर्मत्वादिविशेषणैः सम्बन्धस्यैकत्वात् पदार्थपञ्चकस्य विभागो न भवेत् । 18 न च तस्यैकत्वेऽपि द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वमिति प्रतिनियताधाराधेयनियमान पदार्थसङ्कर इति वाच्यम्, एवं तर्हि समवायस्य प्रतिपदार्थं भिन्नत्वापत्तिः स्यात् । न च कुण्डध्नो: संयोगस्यैकत्वेऽपि यथाssधाराधेयप्रतिनियमस्तथा तस्यैकत्वेऽपि व्यङ्गव्यञ्जकशक्तिभेदात् आधाराधेयप्रतिनियमसम्भवेन न पदार्थ पञ्चकस्य सङ्कीर्णता, समवायनिमित्तस्येति प्रत्ययस्य सर्वत्रैकरूपतया दर्शनादेकत्वसिद्धेः द्रव्यत्वादीनाञ्च प्रति20 नियताधारेष्वेव भावात्, प्रमाणनिबन्धनत्वाच प्रमेयव्यवस्थाया इति वाच्यम्, अस्माकं रूपत्वादीनां रूपादिष्वाधेयनियमसिद्धेः, भवताञ्चैकं समवायं सर्वत्राभ्युपगच्छतां स दुर्घट इत्यादिप्रसङ्गापादनस्यास्माभिः क्रियमाणत्वात् । द्रव्ये एव द्रव्यत्वादीनां यो नियम इष्यते स- समवायबलादेव, तस्य च द्रव्यत्वादेर्यस्समवायः स एव गुणादिष्वप्यस्ति, गुणत्वजात्या तस्य सम्बद्धत्वादिति तथा च कथं न पदार्थसङ्करप्रसङ्गः, द्रव्यत्वस्य यः समवायः स न 25 गुणादाविति तर्हि संयोगवत्प्रत्याधारं तस्य भेदः प्रसज्येत । स्वरूपतः समवायस्याभेदेऽपि द्रव्यत्वादीनां भेदाद्भेद इति चेत्समवायस्याभेदे कुतो द्रव्यत्वादीनां विशेषणानां भेदः, यदि स्वत एव तदाssधेयतानियमोऽपि स्वत एवं स्यात् किं समवायेन । द्रव्यत्वादीनां प्रतिनियताधारेष्वेव वृत्तेरन्यत्र तस्य व्यतिरेक इत्युक्तिरपि न युक्ता, अचिकलनिमित्तसद्भावे कार्यस्याभावायोगादन्यथातत्कार्यत्वप्रसङ्गात् एवञ्च धियां व्यतिरेकायोगात्तद्वशादाधा सम्मतितत्त्व सोपाने "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420