Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सदायकान्तवादमखनम् ।
सोपानम् ] तस्य कार्यता, तच्च कार्यशून्य पदार्थान्तरं कारकाभिमतात् अन्यदपि च तत्प्रागभावस्वभावं प्राप्त तत्सम्बन्धेन च घटादेः शशशृङ्गादिव्यवच्छेदेन कार्यताऽभ्युपगतेति सूत्रपिण्डकार्यताऽपि घट. स्यैवं भवेत् । तदन्वयव्यतिरेकाभावान्न तत्कार्यतेति चेन्न, तस्य तत्रासत्व निबन्धनत्वात् । न वा प्रागभावः प्रत्यक्षादिग्राह्यः, मृत्पिण्डस्वरूपमात्रस्यैव तत्र प्रतिभासनात् । न च कारणस्वरूपमेव प्रागभावो निर्विशेषणस्य स्वरूपमात्रस्य कार्येऽपि सद्भावात्तस्यापि प्रागभावरूपताप्रसक्तः, अथ 5 कार्यान्तरापेक्षया तस्यापि प्रागभावरूपता कारणस्वभावाऽभ्युपगम्यत एव, न, कारणाभिमतापेक्षयापि तद्रूपताप्रसक्तः । तथाप्रतीत्यभायान्न तद्रूपतेति चेन्न, अनपेक्षितवस्तुस्वरूपात् प्रतीतिमात्राद्वस्तुव्यवस्थाऽयोगात् , ततो मृत्पिण्डादिरूपतया वस्तु गृह्यतेऽध्यक्षादिना न पुनस्तव्यतिरिक्तकारणादिरूपतया, तस्य तत्राप्रतिभासनात् , प्रतिभासनेऽपि विशिष्ट कार्यापेक्षया कारणस्वस्य प्रतिपत्तौ कार्यप्रतिभासमन्तरेण तत्कारणत्वस्याप्रतीतेः, असतः कार्यस्य तदानीम- 10 प्रतिभासनात् प्रत्यक्षस्यासदर्थप्राहकत्वेन भ्रान्तताप्रसक्तेः तदा तत्कार्यस्य सस्वासक्तिः स्यादिति कथमसति कारणव्यापारः प्रतीयेत, तन्न युक्तमसतः कार्यत्वम् ।। नाप्यसत्कारणं कार्यम् , कारणस्य तदानीमभावे तस्य तत्कृतत्वायोगात् , क्षणिकस्य कारणस्य स्वभावमात्र. व्यवस्थितेरन्यत्र व्यापारायोगात् । न च तदनन्तरं कार्यस्य भावात् प्राग्भावित्वमात्रमेव कारणस्य व्यापार इति वाच्यम , सर्वभावेषु तत्पूर्वकालभावित्वस्य सत्त्वेन तत्कारणत्वा- 15 पत्तेः, तदनन्तरं विवक्षितकार्यस्योदयात् । न च सर्वभावक्षणाभावेऽपि तद्भावान्न तस्य सत्कार्यत्वमिति युक्तम् , विवक्षितक्षणाभाव एव विवक्षितकार्य सद्भावात् , सर्वत्र चाविशिटत्वात् । विशिष्टभावक्षणधर्मानुविधानात्तस्य तत्कार्यताव्यवस्थेति चेन्न, सर्वथा तद्धर्मानुविधाने तस्य कारणरूपतापत्तेः, तत्प्राक्कालभावितया तत्कार्यताव्यतिक्रमात् , कथञ्चित्तद्ध. मानुविधाने चानेकान्तवादापन्तेरसत्कारणं कार्यमित्यभ्युपगमव्याघातात् , सन्तानापेक्षया 20 कार्यकारणभावे तु तस्य पूर्वापरक्षणव्यतिरेकेण सद्भावे कार्यकारणरूपस्य तस्यैवार्थक्रियासामर्थ्यात् सत्त्वं स्यान्न तु क्षणानामर्थक्रियासामर्थ्यविरहात् , अव्यतिरेकेण च सद्भावे सैव कार्यकारणभावानुपपत्तिः । अथ सन्तानस्य क्षणसम्बन्धित्वात्तस्य कार्यकारणभावे क्षणानामपि स्यादिति चेन्न सन्तानक्षणयोभिन्नयोः कार्यकारणभावादन्यस्य सम्बन्धस्याभावेन सन्तानस्य निखिलक्षणानन्तरभावित्वेन सर्वसंतानताप्रसक्तिःस्यात् , किञ्च तस्यापि नित्यत्वे क्षण कार्यत्वे च सत्कार्यवादग्रसक्तिः, क्षणिकत्वे चान्वयाप्रसिद्धेस्तस्य तत्कार्यत्वाप्रसिद्धिः, व्यतिरेकश्व कार्यकारणभावनिबन्धनक्षणिकपक्षे न सम्भवतीति प्रतिपादितमेव । किश्च क्षणिकभावाभ्युपगमवादिनो यदि भिन्नकार्योदयात्कारणस्य सत्त्वमभिमतं तदा तत्कार्यस्याप्यपरकार्योदयात् सत्त्वसिद्धिरित्यनवस्थापत्तेर्न क्वचित् सत्त्वव्यवस्था स्यादिति कुतस्तद्वयवच्छेदेनासत् कार्य
"Aho Shrutgyanam"

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420