Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् । कणादोतयनिरसनम् ।
: २८७ : तथा पटस्तन्तुभ्यो भिन्नः, भिन्नकर्तकत्वात् , घटादिवत्, भिन्नशक्तिस्वाद्विषागदधत् , पूर्वोत्तरकालभावित्वात् पितापुत्रवत् , विभिन्नपरिमाणत्वाद्वा कुवलबिल्ववदिति प्रमाणेनावयवावयविनोरपि भेदः सिद्धः, विरुद्धधर्माध्यासनिबन्धनो हि परत्रापि भावानां भेदः स चात्राप्यस्तीति कथं न भेदः, यदि चावयवावयविनोभेदो न भवेन्न भवेत् स्थूलप्रतिभासः, परमाणूनां सूक्ष्मत्वात् । न चान्यथाभूतः प्रतिभासोऽन्यागर्थव्यवस्थापकोऽति 5 प्रसङ्गात् , न च स्थूलाभावे परमाणुरिति व्यपदेशोऽपि संम्भवी, स्थूलापेक्षत्वादणुत्वस्येति । चेन, स्वगतगुणानुपलम्भे बलाकाद्युपलम्भस्य भ्रान्ततया निर्विषयत्वात् , बलाकादयो हि शुक्ला सन्तः श्यामादिरूपतया तदोपलभ्यन्ते, न च तेषां तद्रूपं तात्त्विकम् , न च तदा श्यामादिरूपादन्यो बलाकादिस्वभाव उपलभ्यते, श्यामादिरूपस्यैवोपलम्भात् ,न चातद्रूपा अपि बलाकादयः श्यामादिरूपेणोपलभ्यन्ते, यत आकारवशेन प्रतिनियतार्थता ज्ञानस्य व्यवस्था- 10 प्यते, अन्याकारस्यापि तस्यान्यार्थतायां रूपज्ञानस्यापि रसविषयताप्रसक्तिरविशेषात् । क
चुकावच्छन्ने च पुंसि पुमानिति ज्ञानमवयविव्यवस्थापकतयोपन्यस्त नाध्यक्षरूपम् , शब्दानुविद्धत्वादस्पष्टाकारत्वाच्च, किन्तु रूपादिसंहतिमात्र लक्षण पुरुषविषयमनुमानमेतत् । रूपा. दिप्रचयात्मकपुरुषहेतुको हि कञ्चुकसन्निवेश उपलभ्यमानः स्वकारणमनुमापयति, धूम इवाग्निम् । षष्ठीवचनभेदादेरपि स्वेच्छामात्रभाविनो न बाह्यवस्तुगतभेदाऽव्यभिचारित्वं येन ततो 15 गुणगुणिभेदसिद्धिर्भवेत् । तेन यद्यव्यवच्छिन्नमित्यादिप्रयोगानुपपत्तिः, स्वस्य भावः, षण्णां पदार्थानामस्तित्वं दाराः सिकता इत्यादौ वस्तुगतभेदमन्तरेण षष्ठयादेरभावाङ्गीकारे षष्ठयादेवृत्तिनं स्यात्, भावादेर्व्यतिरिक्तस्य तन्निबन्धनस्याभावात् । न च षण्णामस्तित्वं सदुपलम्भकप्रमाणविषयत्वलक्षणं धर्मान्तरमिति वाच्यम् , षट्पदार्थाभ्युपगमभङ्गप्रसङ्गात् । न च षट्पदार्थभिन्नानामपि धर्माणामभ्युपगमान्न दोष इति वक्तव्यम् , तैस्तेषां सम्बन्धानुपपत्त्या 20 धर्मधर्मिभावायोगात् , अन्यथातिप्रसङ्गात् । न च संयोगसम्बन्धोऽत्र सम्भवति, तस्य गुण त्वेन द्रव्येष्वेव भावात् , नापि समवायः, सत्तावत्तस्य सर्वनैकत्वाभ्युपगमेन तस्य सम्बन्धान्तरापेक्षायामनवस्थानात् , समवायेन सह समवायसम्बन्धे द्वितीयसमवायाङ्गीकारप्रसङ्गात् । न च षड्भिः पदार्थैरसह धर्माणामुत्पत्तेरतेषां त इति व्यपदेशो भविष्यतीति वाच्यम् , कुण्डादिसम्बन्धिनां बदरादीनामपि तथाप्रसङ्गेन संयोगादिसम्बन्धान्तरकल्पनानर्थक्यात् । षण्णां पदा- 25 र्थानां धर्मान्तरभूतास्तित्वस्याङ्गीकारेऽपि तत्रापरास्तित्वाद्यभावेऽपि तदस्तित्वस्यास्तित्वप्रमेयत्वाभिधेयत्वानीति षष्ठयादिप्रवृत्तिर्दुवोरैव, तत्राप्यपरास्तित्वादिकल्पनेऽनवस्था, इष्टापत्तौ च सर्वेषामप्युत्तरोत्तरधर्माधारतया धमित्वप्रसक्त्या षडेव धर्मिणः इत्येतस्यानुपपत्तिः । न च धर्मिरूपाणामेव षट्केनाभिधानान्न दोष इति साम्प्रतम् , धर्मरूपाणामपि गुणादीनामनिर्देशप्रस
"Aho Shrutgyanam"

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420