SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ सोपानम् । कणादोतयनिरसनम् । : २८७ : तथा पटस्तन्तुभ्यो भिन्नः, भिन्नकर्तकत्वात् , घटादिवत्, भिन्नशक्तिस्वाद्विषागदधत् , पूर्वोत्तरकालभावित्वात् पितापुत्रवत् , विभिन्नपरिमाणत्वाद्वा कुवलबिल्ववदिति प्रमाणेनावयवावयविनोरपि भेदः सिद्धः, विरुद्धधर्माध्यासनिबन्धनो हि परत्रापि भावानां भेदः स चात्राप्यस्तीति कथं न भेदः, यदि चावयवावयविनोभेदो न भवेन्न भवेत् स्थूलप्रतिभासः, परमाणूनां सूक्ष्मत्वात् । न चान्यथाभूतः प्रतिभासोऽन्यागर्थव्यवस्थापकोऽति 5 प्रसङ्गात् , न च स्थूलाभावे परमाणुरिति व्यपदेशोऽपि संम्भवी, स्थूलापेक्षत्वादणुत्वस्येति । चेन, स्वगतगुणानुपलम्भे बलाकाद्युपलम्भस्य भ्रान्ततया निर्विषयत्वात् , बलाकादयो हि शुक्ला सन्तः श्यामादिरूपतया तदोपलभ्यन्ते, न च तेषां तद्रूपं तात्त्विकम् , न च तदा श्यामादिरूपादन्यो बलाकादिस्वभाव उपलभ्यते, श्यामादिरूपस्यैवोपलम्भात् ,न चातद्रूपा अपि बलाकादयः श्यामादिरूपेणोपलभ्यन्ते, यत आकारवशेन प्रतिनियतार्थता ज्ञानस्य व्यवस्था- 10 प्यते, अन्याकारस्यापि तस्यान्यार्थतायां रूपज्ञानस्यापि रसविषयताप्रसक्तिरविशेषात् । क चुकावच्छन्ने च पुंसि पुमानिति ज्ञानमवयविव्यवस्थापकतयोपन्यस्त नाध्यक्षरूपम् , शब्दानुविद्धत्वादस्पष्टाकारत्वाच्च, किन्तु रूपादिसंहतिमात्र लक्षण पुरुषविषयमनुमानमेतत् । रूपा. दिप्रचयात्मकपुरुषहेतुको हि कञ्चुकसन्निवेश उपलभ्यमानः स्वकारणमनुमापयति, धूम इवाग्निम् । षष्ठीवचनभेदादेरपि स्वेच्छामात्रभाविनो न बाह्यवस्तुगतभेदाऽव्यभिचारित्वं येन ततो 15 गुणगुणिभेदसिद्धिर्भवेत् । तेन यद्यव्यवच्छिन्नमित्यादिप्रयोगानुपपत्तिः, स्वस्य भावः, षण्णां पदार्थानामस्तित्वं दाराः सिकता इत्यादौ वस्तुगतभेदमन्तरेण षष्ठयादेरभावाङ्गीकारे षष्ठयादेवृत्तिनं स्यात्, भावादेर्व्यतिरिक्तस्य तन्निबन्धनस्याभावात् । न च षण्णामस्तित्वं सदुपलम्भकप्रमाणविषयत्वलक्षणं धर्मान्तरमिति वाच्यम् , षट्पदार्थाभ्युपगमभङ्गप्रसङ्गात् । न च षट्पदार्थभिन्नानामपि धर्माणामभ्युपगमान्न दोष इति वक्तव्यम् , तैस्तेषां सम्बन्धानुपपत्त्या 20 धर्मधर्मिभावायोगात् , अन्यथातिप्रसङ्गात् । न च संयोगसम्बन्धोऽत्र सम्भवति, तस्य गुण त्वेन द्रव्येष्वेव भावात् , नापि समवायः, सत्तावत्तस्य सर्वनैकत्वाभ्युपगमेन तस्य सम्बन्धान्तरापेक्षायामनवस्थानात् , समवायेन सह समवायसम्बन्धे द्वितीयसमवायाङ्गीकारप्रसङ्गात् । न च षड्भिः पदार्थैरसह धर्माणामुत्पत्तेरतेषां त इति व्यपदेशो भविष्यतीति वाच्यम् , कुण्डादिसम्बन्धिनां बदरादीनामपि तथाप्रसङ्गेन संयोगादिसम्बन्धान्तरकल्पनानर्थक्यात् । षण्णां पदा- 25 र्थानां धर्मान्तरभूतास्तित्वस्याङ्गीकारेऽपि तत्रापरास्तित्वाद्यभावेऽपि तदस्तित्वस्यास्तित्वप्रमेयत्वाभिधेयत्वानीति षष्ठयादिप्रवृत्तिर्दुवोरैव, तत्राप्यपरास्तित्वादिकल्पनेऽनवस्था, इष्टापत्तौ च सर्वेषामप्युत्तरोत्तरधर्माधारतया धमित्वप्रसक्त्या षडेव धर्मिणः इत्येतस्यानुपपत्तिः । न च धर्मिरूपाणामेव षट्केनाभिधानान्न दोष इति साम्प्रतम् , धर्मरूपाणामपि गुणादीनामनिर्देशप्रस "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy