SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ : २८८ : सम्मतितस्वसोपाने [द्वात्रिंशम् ङ्गात् । भिन्नकर्तृत्वानुमानमप्यसङ्गतम् , तथाहि किमत्र साध्यते प्राक्तनावस्थेभ्योऽप्राप्तपटव्यपदेशेभ्यस्तन्तुभ्यः पटस्य भेदः, किंवा पटावस्थायां ये तन्तवस्तेभ्यः पटस्य भेदः, नाद्यः सर्वभावानां क्षणिकत्वेन तद्विलक्षणपटाख्यपदार्थानुत्पादेऽपि प्रतिक्षणं भेदेन सिद्धसाधनात् । न द्वितीयः, हेतूनामसिद्धत्वात् , न हि तदवस्थाभावितन्तुभ्यः पटस्य भेदाप्रसिद्धौ भिन्नकर्त5 कत्वादयो धर्माः सिद्ध्यन्ति, नास्ति तत्सिद्धिः सम्प्रत्येव तत्सिद्ध्यर्थ हेतूपन्यासात् । न च तन्तवः पट इति संज्ञाभेदान्दसिद्धिः, प्रयोजनान्तरवशेनापि संज्ञान्तरस्य सङ्केतनात् । योषित्कर्त्तकारतंतवो हि शीतापनोदनाद्यर्थासमर्थास्तन्तुव्यपदेशभाजः, कुविन्दकर्त्तका विशिटावस्थाप्राप्ताः प्रावरणाद्यर्थक्रियासमर्थाः पटव्यपदेशविषयाः, तदर्थक्रियाप्रतिपादनाय व्यवहा. रिभिस्तथा तत्र सङ्केतकरणात् , अन्यथा गौरवाशक्तिवैफल्यप्रसङ्गात्। यदि हि यावन्तो भावा 10 विवक्षितैककार्यनिर्वर्तनसमर्थास्तेषु तावन्तः शब्दा निवेश्यन्ते तदा गौरवदोषः, न चैषाम साधारणं रूपं निर्देष्टुं शक्यमित्यशक्तिदोषः, उत्प्रेक्षितसामान्याकारेण निर्देशे वरं पट इत्ये. कयैव श्रुत्या प्रतिपादनं कृतमिति न किञ्चित् फलमस्य प्रत्येकं पृथगभिधानप्रयासस्य पश्याम इति वैफल्यदोषः । सामस्त्येन त्वभिधाने सति व्यवहारलाघवादिर्गुण इत्येकार्थक्रियाकारिषु अनेकेषु एकशब्दसङ्केत उपपन्नः, सकलवस्तुविवक्षायां जगत्रिभुवन विश्वादिशब्दवत् , एव. 15 मेकवचनादिकं साङ्केतिकं व्यवहारलाघवार्थमुपादीयमानं न वास्तवं तयोर्भेदं प्रसाधयति, विशि. ष्टावस्थाप्राप्तानां चाणूनामिन्द्रियग्राह्यत्वादतीन्द्रियत्वमसिद्धमिति नावयव्यभावे प्रतिभासविरतिप्रसक्तिर्दूषणम् , न हि सर्वदैवेंद्रियातिक्रान्तस्वरूपाः परमाणवः क्षणिकवादिभिरभ्युपगम्यन्ते, तेषां सर्वदैकस्वभावताविरहात् , ततः परस्पराविनिर्भागवर्तितया सहकारिवशादु. त्पन्नाः परमाणव एवाध्यक्षविषयतामुपयान्तीत्यभ्युपगन्तव्यम् , अन्यथा विजातीयानां द्रव्या20 नारम्भकत्वात् पावकतप्तोपलहेमसूतादेरुपलम्भो न स्यात् , न च तत्र संयोगस्योपलभ्यता, अदृष्टाश्रयस्य तस्यापि उपलम्भाविषयत्वात् वाय्वाकाशसंयोगवत् । न च पौर्वांपर्यादिदिग्भेदेन व्यवस्थिताः परमाणवः, न च ते तद्रूपेणोपलभ्यन्त इति कथमध्यक्षतैषामिति वाच्यम् , सर्वाकाराननुभवेऽपि यत्रैवांशेऽभ्यासादिकारणसद्भावान्निश्चयस्तत्रैवाध्यक्षविषयताव्यवस्थाप नात्, अन्यत्र तु गृहीतस्यापि व्यवहारायोग्यत्वेन निश्चयानुत्पत्तेरगृहीतकल्पत्वात् । न 25 चावयव्यभावे बहुषु परमाणुषु एकः पट इत्यक्षव्यापारेण कथं प्रत्यय इति शङ्कयम् , अनेक सूक्ष्मतरपदार्थसंवेदनत एक इति विभ्रमोत्पत्तेः, प्रदीपादौ नैरन्तर्योत्पन्नसदृशापरापरज्वालादिपदार्थसंवेदनेऽपि एकत्वविभ्रमवत् । भेदेनानुपलक्ष्यमाणाः परमाणवः कथमध्यक्षा इति चेन्न, विवेकेनानवधार्यमाणस्यानध्यक्षत्वे प्रदीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणेऽनध्यक्षताप्रसक्तः, अवयवविवेकेन वाऽगृह्यमाणोऽपि कथमवयवी तथाप्रत्यक्षत्वेनेष्टः । किञ्च नीलादि निर्भासे. "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy