SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सोपानम् । कणादोक्तशेयनिरसनम् । ऽपि नीलादेर्यदि न परमाणवः प्रतिभान्ति तदा नीलादिज्ञानं बहिरर्थवादिना नैवाविषयमिष्टव्यम् , अन्यथा विज्ञानमात्रताप्रसक्तेः सविषयश्चेत् स्थूलतयाऽवभासनो नीलादिविषयः एको वा स्यादनेको वा, एकोऽपि भवन्नवयवैरारब्धो वा भवेदनारब्धो वा, न तावदुभयात्माप्ययं नीलादिरेको युक्तः, स्थूलस्यैकस्वभावत्वविरोधात् । यदि हि स्थूलमेकं स्यात्तदैकदेशपिधाने स्यात्सर्वस्य पिधानम् , एकदेशरागे च सर्वस्य रागः प्रसज्येत, पिहितापिहितयोरक्तारक्तयोश्च 5 भवन्मतेनाभेदात् , न चैकस्य परस्परविरुद्धधर्माध्यासो युक्तः, अतिप्रसङ्गात् , अन्यथा विश्वमेकं द्रव्यं स्यात् , ततश्च सहोत्पादादिप्रसङ्गः, न चैकदेशपिधाने सर्व पिहितमीक्ष्यते इति प्रत्यक्षविरोधः, तथाऽनुमानविरोधोऽपि, यद्धि परस्परविरुद्धधर्माध्यासितं न तदेक, यथा गोमहिषम् , उपलभ्यमानानुपलभ्यमानरूपं पिहितादिरूपेण च विरुद्धधर्माध्यासितं स्थूलमिति व्यापकविरुद्धोपलब्धिः, सर्वस्यैकत्वप्रसङ्गो विपर्यये बाधकं प्रमाणम् । न भेदा- 10 भावासर्वशब्दप्रयोगो नोपपद्यते, सर्वशब्दो ह्यनेकार्थविषयः, न चावयवी नानात्मा तत्र कथं सर्वशब्दप्रयोगो येनैकदेशावरणे सर्वावरणप्रसक्तिरुच्येतेति वाच्यम् , लोकप्रसिद्धानां वस्त्रादिभावानामेव भवताऽवयविकल्पनात् , लोके च तत्र सर्व वस्त्रं रक्तमित्येवं सर्वशब्दप्रयोगात् । यदर्थविवक्षायां रक्तादिशब्दप्रयोगो लोके तस्यामेवास्माभिरपि तत्प्रतीतिमनुसृत्य भवतां विरोधप्रतिपादनाय सर्वादिशब्दप्रयोगः क्रियत इति कथमस्यानुप- 15 पत्तिः । किश्च स्थूलस्य कत्वमभ्युपगच्छतो भवत एवायं दोषो नास्माकम् , तदनभ्युमगमात् । न च पटकारणेषु तन्तुषु उपचारतः पटाभिधानप्रवृत्तेः सर्वादिशब्दप्रयोगानुपपत्तिर्दोषः परस्यापि न भविष्यतीति वक्तव्यम् , एवं सति सर्वदैव बहुवचनप्रयोगापत्तेः, न हि भवदभ्युपगमेन बहुष्वेकवचनमुपपत्तिमत् । न चावयविगतां संख्यामादाय पटादिशब्दस्तदवयवेषु तन्त्वादिषु अपरित्यक्तात्माभिधेयगतलिङ्गादिर्वर्तत इति वाच्यम् , अस्य व्यपदेशस्य 20 गौणत्वे स्खलद्रूपतयाऽगौणाद्भेदप्रसक्तेः, न चासावस्ति तथाहि रक्तं सर्व वस्त्रमित्यत्र नैवं बुद्धिर्न रक्तं वस्त्रं किन्तु तत्कारणभूतास्तन्तव इति । किञ्च भेदेनोपलब्धयोर्गो वाहीकयोमुख्योपचरितविषयता सम्भवति, न चावयवावयविनोः कदाचिद्भेदेनोपलब्धिरिति नात्रोपचरितशब्दप्रयोगो युक्तः । वस्त्रस्य रागः कुंकुमादिद्रव्यसंयोग उच्यते, स चाव्याप्यवृत्तिः, तदेकत्र रक्ते न सर्वस्य रागः, न च शरीरादेरेकदेशावरणे सर्वस्यावरणं युक्तमिति 25 चेन्न, पटादिनिरंजकद्रव्यस्य कुंकुमादिनाऽव्याप्तस्वरूपावस्थानाङ्गीकारे व्याप्ताव्याप्तयोर्विरोधे. १ अत्र प्रतिषेध्यमेकत्वं तस्यापको विरुद्धधर्माध्यासाभावः तद्विरुद्धो विरुद्धधर्माध्यासस्तस्य स्थूले उपलन्धिरित्यर्थः । "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy