________________
: २९० :
सम्मतितरवलीपाने
[ द्वात्रिंशम्
नैकस्वभावत्वायोगाद्भेदप्रसङ्गात्, न चैकस्य पृथुतरदेशावस्थानं युक्तं निरंशत्त्रात्, अन्यथा हि सर्वेषामेवोदकजन्तुहस्त्यादीनामेकत्वेनाविशेषात् स्थूलसूक्ष्मादिभेदो न भवेत् । न चासौ विशेषोऽल्पबह्ववयवारम्भादिकृतः, तथाभेदेऽप्यवयविनां निरंशतया परस्परं विशेषाभावात्, अवयवाल्पबहुत्वग्रहणकृते च स्थूलादिव्यवहारेऽवयवमात्रमेवाभ्युपगतं दृश्यत्वेन स्यात्, 5 स्थूलादिव्यतिरेकेणान्यस्यादृश्यमानत्वात् । अवयवात्पबहुत्वकृते च तथाभेदेऽवयवा एव तथा तथोत्पद्यमाना अल्पबहुतराः स्थूलसूक्ष्मादिव्यवस्थानिबन्धनं भविष्यतीति किं तदारब्धावयविकल्पनया, तस्य कदाचिदप्यदृष्टसमत्वात् । किञ्चाव्याप्यवृत्तिः संयोग इत्यस्य यदि सर्व द्रव्यं न व्याप्नोति इत्ययमर्थस्तदा द्रव्यस्य सर्वशब्दाविषयत्वाभ्युगपमादयुक्तः, अथ तदेकदेशवृत्तिरिति तन्न तस्यैकदेशासम्भवात् । न च तदारम्भकेऽत्रयवे वर्तत इत्यर्थो युक्तः, तदा10 रम्भकस्याप्यवयवत्वात् । अथाणुरूपस्तदाणूनामतीन्द्रियत्वात् तदाश्रितः संयोगोऽप्यतीन्द्रिय एवेति रक्तोपलम्भो न भवेत् । न च यथाऽङ्गुलिरूपस्याऽऽश्रयोपलब्धावेवोपलब्धिर्न तथा संयोगस्याश्रयोपलब्धावेयोपलब्धिरित्यव्याप्यवृत्तिरिति वक्तव्यम्, संयोगस्याप्याश्रयानुपलब्धावप्यनुपलब्धेः, अन्यथा वटपिशाचसंयोगस्याप्युपलब्धिः स्यात् न चान्यः संयोगोपलम्भोपाय आश्रयोपलम्भात्समस्ति तस्मान्नैकरूपं द्रव्यम्, अनेकरूपमपि अणुसञ्चयात्मकमेव 15 सामर्थ्यात् सिद्धम्, विद्यमानावयवस्यैकत्वायोगात्, ततः पटादीनां परमाणुरूपत्वान्नीलादिः परमाणूनामाकारः, स्थूलरूपस्यैकस्यापरस्य विषयस्याभावात् परमाणुरिति व्यपदेश: स्थूलस्यैकस्याभावेऽपि कल्पितस्थूलापेक्षया सम्भवति, ततो न स्थूलमेकं द्रश्यमवयवानारब्धमपि घटते, तदारवन्तु सुतरामसम्भवि । तथा च यदनेकं न तदेकद्रव्यानुगतम्, यथा घटकुख्यादयः अनेके च तन्त्वादय इति व्यापकविरुद्धोपलब्धिः, यद्वा यदेकं न तदनेकद्रव्या20 श्रितम्, यथैकपरमाणुः, एकलावयविसंज्ञितं द्रव्यमिति व्यापकविरुद्धोपलब्धिप्रयोगः प्रसङ्गसाधनरूपः, प्रयोगद्वये ऽप्यवयविनोऽवयवेषु वृत्त्यनुपपत्तिर्विपर्यये बाधकं प्रमाणम्, हिं किमेकावयवक्रोडीकृतेन स्वभावेनात्रयवान्तरेऽवयविनः स्यात्, किंवा स्वभावान्तरेण, न प्रथमः, एकावयवक्रोडीकृत स्वभावेनान्यत्र वर्त्तितुमशक्तेः, शक्तौ वा तस्य तत्रावयवे सर्वात्मना वृत्त्यनुपपत्तिः, अपरखभावाभावादन्यावयववृत्तिस्वभावासम्भवात्, संभवे वा एकत्वहा25 निप्रसक्तेः, यद्येकक्रोडीकृतं न तस्देवान्यत्र वर्त्तते, यथैकभाजनकोडीकृतमाम्रादि, एकावयवक्रोडीकृतञ्चात्रयविश्वरूपमिति व्यापकविरुद्धोपलब्धिः, एकावयवसम्बद्धस्वभावस्यातद्देशावयत्रान्तरसम्बद्धस्वभावताऽभ्युपगमे तदवयवानामेकदेशताप्रसक्तिर्विपर्यये बाधकं प्रमाणम् । न द्वितीयः, एकस्यानेकवृत्तित्वासम्भवात् स्वभावभेदात्मकत्वाद्वस्तुभेदस्य, अन्यथा तदयोगात् । किञ्च प्रत्येकमवयवेषु सर्वात्मनाऽवयविनो वृत्तौ यावन्तोऽवयवास्तावन्त एवावयविनः
वृत्ति •
"Aho Shrutgyanam"