________________
सोपानम् ]
कणादोक्त ज्ञेय निरसनम् |
: २९१ :
स्युः, विना स्वभावभेदं तावत्स्ववयवेषु प्रत्येकं सर्वात्मना वृत्त्यनुपपत्तेः एवञ्च युगपदनेककुण्डादिव्यवस्थितबिल्वादिवदने कावयव्युपलब्धिः स्यात् । एकदेशेन वर्त्तमाने स्वनवस्था
"
वयवेषु वृत्तौ अपरैकदेशवृत्तिकल्पनाप्रसङ्गात्, यदि तु वैरेकदेशैरवयवी अवयवेषु वर्त्तते ते तस्य स्वात्मभूता इति नानवस्थेत्युच्यते तर्हि पाण्यादयोऽप्यवयत्रास्तस्य स्वात्मभूताः किं नाभ्युपगम्यन्ते, तथाभ्युपगमे चापरावयविप्रकल्पना न स्यात् तस्यावयवप्रचयात्मक - 5 वात् । ननु किमिदं कात्स्न्यैकदेशाभ्यां वृत्तिविकल्पानुपपत्तिः स्वतंत्रसाधनं प्रसङ्गसाधनं वा, सत्रोभयमपि अवयव्युपलब्धौ सत्यां प्रवर्त्तेत, अन्यथाऽऽश्रयासिद्धता स्यात् । न वा कात्न्यैकदेशाभ्यां वृत्तिः क्वचन लक्षिता, यस्या असम्भवात् अवयव्यादेर्द्रव्यासत्त्वं भवेत्, उभयविधवृत्तिप्रतिषेधेऽपि प्रकारान्तरेण वृत्तिः कुतो न स्यात्, इह तन्तुष्विदं वस्त्रादीत्येवंभूतात् प्रत्यक्षात्समवायलक्षणवृत्तेरवयविनः सिद्धेः, स च समवायस्सर्वत्रैकत्वान्निरवयवत्वाच 10 न कृत्स्नैकदेशशब्दविषयः, मैवम्, प्रसङ्गसाधनाभिधानात् तच्च व्याप्यव्यापकभावसिद्धौ व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः, व्यापक निवृत्तिर्वा व्याप्यनिवृत्त्यविनाभावि - नीत्येतत्प्रदर्शनफलं प्रवर्त्तत एव व्याप्यव्यापकभावसिद्धिश्चात्र लोकप्रसिद्धैव भवताप्यभ्युपगमनीया, लोकश्च कस्यचित् सर्वात्मना वृत्ति श्रीफलस्य कुण्डादौ, कचिच्च कस्यचिदेकदेशेन यथानेकपीठाधिष्ठितचैत्रादेरभ्युपगच्छति, यत्र प्रकारद्वयं वृत्तेर्व्यावृत्तं तत्र वृत्तेरभाव एव 15 कथं न व्याप्तिसिद्धिर्येनात्र प्रसङ्गसाधनस्यावकाशो न स्यात्, निरस्ता च प्रागने कश्मिनेकस्य वृत्तिः, इह तन्तुष्विदं वस्त्रादीत्येवं भूतं प्रत्यक्षमपि न लोके प्रवर्त्तते, किन्तु इह वि शृङ्गं पटे तन्तव इत्येवमेव विकल्पिक बुद्धिः । नाप्यध्यक्ष चेतसि तन्त्वादिसमवेतं तद्व्यतिरेकिवस्त्रादिरूपं प्रतिभासते, न च विवेकेनाप्रतिभासिते सतीदमिह वर्त्तत इति धीर्भवेत्, न हि कुण्डादौ विवेकिनामप्रतिभासमाने पयसि भवति सलिलमिहेति प्रत्ययः, कि बदरादेः 20 कुण्डादौ सर्वात्मना स्तम्भादौ वंशादेरेकदेशेन वृत्तेरुपलक्षणात् कारस्न्यैकदेशाभ्यां वृत्तेन - पलक्षणं क्वचित् । कृत्स्नमिति चैकस्याशेषभिधानम्, एकदेश इति चानेकत्वे सति कस्यचिदभिधानम्, तयोः कृत्स्नः पटः कुण्डे वर्त्तते, एकदेशेन वा इत्येयं पटादिषु प्रवृत्तिदर्शनाताववयविन्यनुपपन्नावित्यभिधानभपि न सङ्गतम्, न चेयमुपचरिता, अस्खलद्वृत्तित्वात् तस्मान्न नित्यानित्यरूपप्रथिव्यादिचतुः संख्यं द्रव्यं युक्त्युपपन्नम् । आकाशाख्यनित्यैकद्रव्यप्रसिद्धये शब्द गुणत्वालिङ्गत्वेन प्रतिपादयन्ति, उत्पत्तिमत्त्वे सति विनाशित्वाद्वटादिवच्छन्दः कचिदाश्रित इति, तत्राश्रितत्वमात्रसाधने सिद्धसाध्यता, कारणप्रतिबद्धात्मतया कार्यस्य तदाश्रितत्वाभ्युपगमात्, एकनित्या मूर्त्तविभुद्रव्यसमवेतत्वेन शब्दानामाश्रितत्वसाधने तथाभूतसाध्यान्वितहेतोर्दृष्टान्तेऽभावादनैकान्तिकता, प्रतिज्ञायाञ्चानुमानविरोधित्वम, यदि हि नित्यै -
" Aho Shrutgyanam"
25