________________
: २९२ : सम्मतितत्त्वसोपाने
{ দুহা कव्यापिनभोद्रव्यसमवेताः शब्दा भवेयुस्तदैकदोत्पन्नानेकशब्दवदन्यकाला अपि ते सदैव स्युरविकलकारणत्वादेकाश्रयत्वाच, न च सहकार्य पेक्षा नित्यस्य सम्भवति । नापि समवायिस्वमनुपकारिणो युक्तम् , अतिप्रसङ्गात् , ततोऽक्रमभावित्वप्रसङ्गो व्यवस्थितः । तत्कारणस्य नित्यत्वे व्यापित्वे च शब्दानां सर्वपुरुषैणप्रसङ्गः, आकाशात्मकं हि श्रोत्रं तदेकमेवेति 5 तत्प्राप्तानां सर्वेषामपि श्रवणं स्यात् । न हि निरवयवाकाशे इदमात्मीयं श्रोत्रमिदन परकीयमिति विभागः सम्भवति, न च यदीयधर्माधर्माभिसंस्कृतकर्णशष्कुल्यवरुद्ध नभस्तत्तस्य श्रो. त्रमिति विभागो युज्यते, अनंशत्वान्नभसः, पारमार्थिकविभागनिष्पाद्यफलस्य परिकल्पितावयवविभागेन निर्वर्तयितुमयोग्यत्वाच, अतिप्रसङ्गात्, अन्यथा मलयजरसादिकमपि पावक.
प्रकल्पनया प्लोषादिकार्यं विदध्यात् । किश्चानलकर्णशष्कुल्यादयोऽपि समानदेशाः स्युरभिन्नै10 कनभः संसर्गित्वात् , येन ह्येको वियत्स्वभावेन संयुक्तः तेनैवापरोऽपीति सोऽपि तद्देशभावी
स्यात् , तत्संयुक्तस्वभाववियत्संसर्गित्वात्तद्देशावस्थितानलवत् , अत एव शब्दानामप्येकदेशत्वादेकोपलम्भे सर्वोपलब्धिश्च स्यात् , दूरासन्नाद्यवस्थायित्ता तु भावानां प्रतीतिगोचरा विरोधिनी च भवेदिति न नित्यकव्याप्याकाशसिद्धिः 1 तथा परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्र
प्रत्ययलिङ्गः कालो द्रव्यान्तरम् , तथाहि परः पिता, अपरः पुत्रः, युगपत् , चिरं क्षिप्रं क्रि15 यते कृतं करिष्यते इति यत् परापराविज्ञानं तदादित्यादिक्रियाद्रव्यव्यतिरिक्तपदार्थनिबन्धनम् , तत्प्रत्ययविलक्षणत्वात् , घटादिप्रत्ययवत, योऽस्य हेतुः पारिशेध्यात्स काल इति, आकाशवदेवास्य विभुनित्यैकत्वादयो धर्माः। दिगपि एकादिधर्मोपेतं द्रव्यं प्रमाणतः सिद्धम् , तथाहि मूर्तेष्वेव द्रव्येषु मूतं द्रव्यमवधिं कृत्वा इदमस्मात् पूर्वण दक्षिणेन पश्चिमेन उत्तरे
णेत्यादि दशप्रत्यया यतो भवन्ति सा दिगिति, न ह्येते प्रत्यया आकस्मिका न परस्परापेक्ष. 20 मूर्तद्रव्यनिमित्ताः, इतरेतराश्रयत्वेनोभयप्रत्ययाभावप्रसक्तेः, ततोऽन्यनिमित्तोत्पाद्यत्वासम्भ
वादेते दिशो लिङ्गभूताः, एतस्या एकत्वेऽपि प्राच्यादिभेदेन नानात्वं कार्यविशेषाव्यवस्थितम् , प्रयोगश्चात्र यदेतत् पूर्वापराविज्ञानं तन्मूर्तद्रव्यव्यतिरिक्तपदार्थनिबन्धनम् , तत्प्रत्यय. विलक्षणत्वात् सुखादिज्ञानवदिति, आकाशवदेवास्य नित्यत्वादिधर्मा इति, तदपि न सम्यक् ,
सामान्येन साधने सिद्धसाध्यताया विशेषसाधने हेतोरन्वयाद्यसिद्धेः प्रतिज्ञाया अनुमान25 बाधितत्वस्य दुरित्वात् , तथाहि पूर्वापरोत्पन्नपदार्थविषयपूर्वापरशब्दसङ्केतवशोद्भूतसंस्कार
निबन्धनत्वात् प्रकृतप्रत्ययस्य कारणमात्रे साध्ये कथं न सिद्धसाध्यता, विशेषे च कथं नान्वयासिद्धिः, अनुमानबाधा च पूर्ववद्भावनीया, अत एव नेतरेतराश्रयदोषोऽपि पूर्वपक्षोदितः, विशिष्टपदार्थसङ्केतप्रभवत्वादस्य प्रत्ययस्य । किञ्च निरंशकदि कालाख्यपदार्थनिमित्तत्वं परापरादिप्रत्ययस्य साधयितुमभ्युपगतम् , तच्चायुक्तम् , स्वाकारानुकारिप्रत्ययजनकस्य तद्विष
"Aho Shrutgyanam"