________________
सोपानम् ]
कणादोक्तशेयनिरसनम् । यत्वात् , निरंशस्य च पौर्वापर्यादिदिग्विभागाभावतस्तथाभूतप्रत्ययोत्पादकत्वासम्भवात् , तथाभूतप्रत्ययाद्विपरीतार्थसिद्धेरिष्टविपर्ययसाधनाद्विरुद्धश्चैवं हेतुः स्यात् , अथ बाह्याध्यात्मिकभावपौर्वापर्यनिबन्धनस्य दिकालयोः पौर्वापर्यव्यपदेशस्य भावान्न हेतोर्विरुद्धता, न, तथा. सति दिक्कालकल्पनावैयात् , तत्साध्याभिमतकार्यस्य बाह्याध्यात्मिकैः सम्बन्धिभिरेव निर्वर्तितत्वात् , तथाहि दिक् पूर्वापरादिव्यवस्थाहेतुरिष्यते कालश्च पूर्वापरक्षणलवनिमेषक- 5 लामुहूर्तप्रहरदिवसाहोरात्रपक्षमासर्वयनसंवत्सरादिप्रत्ययप्रसवनिमित्तोऽभ्युपगतः, अयं च स्वरूपभेदः स्वात्मनि तयोः समस्तोऽप्यसम्भवी, तत्सम्बन्धिषु पुनर्भावेषु विद्यमानस्तत्र प्रत्ययहेतुरिति व्यर्था तत्प्रकल्पना ! अथ तत्सम्बन्धिष्वयं भेदोऽपरक्रियादिभेदनिमित्तस्तर्हि तत्रा. प्येवमित्यनवस्थाप्रसक्तिः, अथ पदार्थेषु पूर्वापरभेदः कालनिमित्तः, ननु कालेऽप्यसौ न स्वत इत्यपरकालनिमित्तो यद्यभ्युपगम्यते तदाऽनवस्था। अथ पदार्थभेदनिमित्तः तदेतरेतराश्रयत्व. 10 प्रसङ्गः, अथ तत्र स्वत एवायं भेदः, पदार्थेष्वपि स्वत एवायं किं नाभ्युपगम्यते ततश्च पुनरपि दिक्कालप्रकल्पनं व्यर्थमिति ! विभुत्वादिधर्मोपेतमात्मद्रव्यं पूर्वमेव प्रतिषिद्धम् । मनोद्रव्यस्य तु युगपज्ज्ञानानुत्पत्तिर्लिङ्गमुक्तम् , तत्रापि कारणमात्रे साध्ये चक्षुरादिभिन्नमनस्कारादेः कारणत्वाभ्युपगमेन सिद्धसाध्यताः, नित्यैकमनःसाधनेऽनन्वयदोषः, प्रतिज्ञाया अनुमानबाधा, इष्टविपर्ययसाधनात् विरुद्धश्च हेतुरिति दोषाः पूर्ववद्वाच्या:, चक्षुरादिव्यतिरिक्तानित्य- 15 कारणसापेक्षत्वस्य साधनाद्विरुद्धता प्रकटैव, अन्यथा नित्यकारणत्वे चेतसामविकलकारण. स्वाकमोत्पत्तिविरुद्धैव भवेत् , तस्मान्न पृथिव्यादिद्रव्यनवकस्य प्रमाणतः सिद्धिः । द्रव्याभा. वादेव तदाश्रितत्वेनाभ्युपगता गुणादिविशेषपर्यन्ता असन्त एव, आश्रयाभावे तदाश्रितानां तत्परतंत्रतयाऽवस्थानासम्भवात् , ततो द्रव्यनिषेधादेवाशेषपदार्थ निषेधसिद्धावपि विशेषतो गुणादिप्रतिषेधः क्रियते, परदर्शनस्य सर्वथाऽयुक्तत्वप्रदर्शनावश्यकत्वात् । तत्र रूपरसगन्ध. 20 स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्ने हशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः, तत्र रूपं चक्षुह्यं पृथिव्युदकज्वलनवृत्ति, रसो रसनेन्द्रियग्राह्यः पृथिव्युदकवृत्तिः, गन्धो घ्राणग्राह्यः पृथिवीवृत्तिः, स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्युदकज्वलनपवनवृत्तिरिति तन्न, यतः महति द्रव्ये यद्येकमेवानवयवं नीलादीष्यते तदा सूक्ष्मेणापि कुश्चिका दिविवरवर्तिना प्रदीपाद्यालोकेनापवरकादिस्थितपृथुतरघटादिद्रव्यसमवेतस्य नीलादिरूपस्याभिव्यक्ती सकलस्यैव यावद्र्व्यवर्तिनोरभिव्यक्तिरुपलब्धिश्च प्राप्नोति निरवयवत्वात् , न टेकस्या अवयवाः सन्ति येनैकदेशाभिव्यक्तिर्भवेत् । एवं गन्धरसस्पर्शानामपि तदाधारैकदेशस्थानामभिव्यक्ती यावद्रव्यभाविनामुपलब्धिप्रसङ्गः। अथ भवत्येव सकलस्य नीलादेरुपलब्धिरिति चेन्न तदा हि रन्ध्रालोकेन नीलादेरणुशो भेदेऽङ्गी.
"Aho Shrutgyanam"