SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ : २८६ : सम्मतितत्त्वसोपाने [ द्वात्रिंशम् णतया समानोत्पादाने काङ्कुराणामिव सकलकार्याणां सकृदेवोत्पत्तिप्रसङ्गाच्च, अन्यथा विशेषाभावात् सर्वदाऽनुत्पत्तिप्रसङ्गः स्यात् । न च समवायिकारणभूतसंयोगादेरपेक्षणीयस्यासन्निधेरविकलकारणत्वमसिद्धमिति वाच्यम्, अणूनां नित्यानां संयोगादिना अनाधेयातिशयानां तदपेक्षाऽसम्भवात् न च तनुकरणादीनां कार्याणां सकृत् प्रादुर्भावो दृश्यते, अतः 5 क्रमवत्कार्यकर्त्तृत्वात् क्रमवदङ्कुरादिनिर्वर्तक बीजादीनामिव परमाणूनामनित्यत्वमेव स्यात् । न च परमाणूत्पादकाभिमतं न सद्धर्मोपेतं सत्त्वप्रतिपादकप्रमाणाविषयत्वात् शशशृङ्गवदित्यनुमानान्नित्यत्वं तेषामिति वाच्यम्, असिद्धत्वात्, कुविन्दादेरणूत्पादककारणस्य सत्त्वप्रतिपादक प्रमाणविषयत्वात्, यथा च पटाइयः परमाण्वात्मकाः कुविन्दोत्पाद्यास्तथा वक्ष्यते । अनैकान्तिकोऽपि हेतु:, देशकालस्वभावविप्रकृष्टानां भावानां सदुपलम्भकप्रमाण निवृत्तावपि 10 सवाविरोधात् । न च यत एव प्रमाणात् परमाणवः प्रसिद्धाः तत एव नित्यत्वधर्मोपेता अपि ते इति तद्ब्राहकप्रमाणबाधितमनित्यत्वं तेषां नातोऽनित्यत्वानुमानेन प्रकृतप्रतिज्ञा बाधिता, तेषां च प्रमाणतोऽप्रसिद्धौ आश्रयासिद्धतया अनित्यत्वानुमानानुत्थानादिति वाच्यम्, अनित्यत्वधर्मोपेतस्यैव सर्वस्य सर्वप्रमाणविषयत्वात्, अन्यथाभूतस्य प्रमाणाजनकत्वेन तद्विषयत्वानुपपत्तेः, नित्यस्य चाकारणत्वान्नातश्चतुः संख्यं परमाण्वात्मकं नित्यद्रव्यं सम्भ15 वति । नापि तदारब्धमवयविद्रव्यं द्वषणुकादिकं सम्भवति, गुणावयवभिन्नस्य तस्यानुपलब्धेः न हि शुक्लादिगुणेभ्यस्तन्त्वाद्यवयवेभ्यश्च भिन्नं पटादिद्रव्यं चक्षुरादिज्ञानेऽवभासते, परमाणूनामेव विशिष्टाकारतयोत्पन्नानां प्रतिभासविषयतया गुणावयवार्थान्तरभूतो दृश्यत्वेनाभिमतो गुण्यवयवी तत्रैव देशे नास्ति, उपलब्धिलक्षणप्राप्तत्वे सति तत्रानुपलम्भात्, यथा कचित् प्रदेशेऽनुपलम्भविषयो घटादिरित्यनुमानेन तदभावसिद्धेः, महत्यनेकद्रव्यवत्त्वाद्रूपा20 चोपलब्धिरिति वचनात्तयो ईश्यत्वेनाभ्युपगमान्न हेतोर्विशेषणमसिद्धम् । अथ गुणव्यतिरिक्तो गुणी उपलभ्यत एव, तद्रूपाग्रहणेऽपि मन्दमन्दप्रकाशे बलाकादीनामुपलम्भात्, स्वगतशुकुगुणाग्रहणेऽपि च सन्निहितोपधानावस्थायां स्फटिकोपलो गृह्यत एव तथाऽऽप्रपदीनकञ्चुकावच्छन्नशरीरः पुमांस्तद्गतश्यामादिरूपाप्रतिभासेऽपि पुमानिति प्रत्ययोत्पत्तेः प्रतिभात्येव, एवं यद्यद्व्यवच्छेद्यत्वेन प्रतीयते तत्ततो भिन्नम्, यथा देवदत्तादश्वः, गुणिव्यवच्छे25 द्यत्वेन नीलोत्पलस्य रूपादयः प्रतीयन्ते च एवं पृथिव्यप्तेजोवायवो द्रव्याणि रूपरसगन्धस्पर्शेभ्यो भिन्नानि, एकवचन बहुवचनविषयत्वात्, यथा चन्द्रो नक्षत्राणीति, तथा च पृथिवीत्येकवचनम्, रूपरसगन्धस्पर्शा इति बहुवचनमुपलभ्यत इत्यनुमानतोऽपि तयोर्भेदः । १ तदीयरूपवाकयोर्यद्य मेदः स्यात्तर्हि बलाकोपलम्भे तदीयस्वाभाविकरूपोलम्भोऽपि स्यान चोपलभ्यते तस्मात्तयोर्भेद इति भावः । २ जपाकुसुमसन्निधान इत्यर्थः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy