________________
सोपानम् । कणादोक्तशेयनिरसनम् ।
: २८५ : नयविशेषविषयं तदुत्थापितञ्च सौगतमतमित्यभिप्रायः, मिथ्यास्वरूपनयप्रभवत्वादनयोमिथ्यात्वं प्राक् प्रदर्शितमेव ॥ ४५ ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पधरेण विजयलब्धिहरिणा सङ्कलितस्य सम्मतितत्वसोपानस्य हेत्वहेतु.
वादस्वरूपव्यावर्णनं नामैकत्रिंशं सोपानम् ॥
10
अथ कणादोक्तज्ञेयनिरसनम् । ननु भवतु परस्पर निरपेक्षकैकनयावलम्बिनोः सांख्यसौगतमतयोमिथ्यात्वम् , कणभुङ्. मतस्य द्रव्यार्थिकपर्यायार्थिकनयद्वयावलम्बिनः कथं मिथ्यात्वमित्यत्राह---
दोहिवि णएहि णीअं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसअप्पहाणत्तणेण अण्णोण्णनिरवेक्वा ॥ ४६ ॥
द्वाभ्यामपि नयाभ्यां नीतं शास्त्रमुलूकेन तथापि मिथ्यात्वम् ।
यत् स्वविषयप्रधानत्वेन अन्योन्यनिरपेक्षात् ॥ छाया ॥ द्वाभ्यामिति, द्रव्यार्थिकपर्यायार्थिकनयाभ्यामुलूकेन वैशेषिकशास्त्रका प्रणीतं शास्त्रं 15 द्रव्यगुणादिपदार्थषटुस्य नित्यानित्यैकान्तरूपतया प्रतिपादनान्मिथ्यात्वं तत्प्रदर्शितपदार्थषटूस्य प्रमाणबाधितत्वात् , यतः स्वविषयप्रधानताऽन्योन्यनिरपेक्षोभयनयाश्रितं तत् , अन्योन्यनिरपेक्षनयाश्रितत्वस्य मिथ्यात्वादिनाऽविनाभूतत्वात् । तथाहि तन्मतं द्रव्यगुणकर्मसामान्य विशेषसमवायाख्याः षडेव पदार्थाः न्यूनाधिकप्रतिपादकप्रमाणाभावे परस्परविविक्तस्वरूपषट्पदार्थव्यवस्थापकप्रमाणविषयत्वात् , उभयाभिमतघटादिषट्पदार्थवत्। पृथिव्यप्तेजोवावा- 20 काशकालदिगात्ममनांसि नव द्रव्याणि, आद्यं चतुर्द्रव्यं नित्यानित्यभेदेन प्रत्येकं द्विविधम् , नित्यं परमाणुस्वरूपं पृथिव्यादि, व्यणुकादिरूपमनित्यम् , आकाशादिकं नित्यमेव, अनुत्पत्तिमत्त्वात् । रूपादयश्चतुर्विंशतिर्गुणाः, उत्क्षेपणादीनि पश्च कर्माणि, परापरभेदेन द्विविधं सामान्यमनुगतज्ञानकारणम् । नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तिबुद्धिहेतवः । अयुत सिद्धानामाधार्याधारभूतानामिहेति प्रत्ययहेतुर्यः सम्बन्धः स समवाय एको व्याप- 25 कश्च, गुणा अपि केचिन्नित्या एव केचिदनित्या एव, कर्मानित्यमेव, सामान्यविशेषसमवाया. स्तु नित्या एवेति तदसङ्गतम् , पृथिव्यादिपरमाणुचतुष्टयस्यैकान्ताक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधतस्तस्मात्तल्लक्षणसत्त्वव्यावृत्त्याऽसत्त्वात् । तेषां जनकैकस्वभावत्वेऽविकलकार
"Aho Shrutgyanam"