SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ । २८४ : सम्मतितत्त्वसोपाने [ एकत्रिंशम् तिपादकः प्रवर्तते स्यानित्यमित्यादिकं तदा भवति, प्रमाणपरिशुद्धागमार्थमात्रस्य न्यूनाधिकव्यवच्छेदेन प्रतिपादनात्, अधिकस्यासम्भवेन न्यूनस्य च नयानामसर्वार्थत्वप्रसङ्गतोऽ. थस्य परिशुद्धागमविषयत्वायोगात् । स एव नयवाद इतरनिरपेक्षकरूपप्रतिपादकत्वेन यदा दुनिक्षिप्तः-प्रमाणविरुद्धार्थप्रतिपादकत्वेनाऽवतारितस्तदा द्वितीयधर्मनिरपेक्षस्य प्रतिपाद्यध5 मस्याप्यभावतोऽप्रतिपादनादपरिशुद्धो भवति, प्रमाणविरुद्धस्य तथा तदर्थस्य व्यवस्थापयितुमशक्यत्वात् ।। ४३ ॥ अपरिशुद्धश्च नयवादः परसमयः स कियद्भेदो भवतीत्यत्राह-- जावइया वयणवहा तावइया चेव होंति णयवाया। जावइया णयवाया तावइया चेव परसमया ॥४४॥ यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः । यावन्तो नयवादास्तावन्त एव परसमयाः ॥ छाया ॥ 10 यावन्त इति, अनेकान्तात्मकस्य वस्तुन एकदेशस्य यदन्यनिरपेक्षस्यावधारणं अपरि. शुद्धो नयस्तावन्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मार्गा हेतवो नयास्तावन्त एव भवन्ति नयवादास्तत्प्रतिपादकाः शब्दाः। यावन्तो नयवादास्तावन्त एव परसमयाः भवन्ति 15 स्वेच्छाप्रकल्पितनिबन्धनत्वात् परसमयानां परिमितिर्न विद्यते । ननु यद्यपरिमिताः पर समयाः कथं तन्निबन्धनभूतानां नयानां संख्या नियमः · नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूता नयाः ' [ तत्त्वार्थ सू० १-३३ ] इति श्रूयते, न, स्थूलतस्तच्छृतेः, अवान्तरभेदेन तु तेषामपरिमितत्वमेव स्वकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् , तदुत्थ प्रवादानामपि तत्संख्यापरिमाणत्वात् ।। ४४ ॥ 20 ननु के नयमाश्रित्य कः परसमयः प्रवृत्तः, को वा कस्य विषय इत्यत्राह जं काविलं दरिसणं एवं दव्वट्ठियस्स वत्तब्वम् । सुद्धोअणतणअस्स उ परिसुद्धो पजवविअप्पो ॥ ४५ ॥ यत् कापिलं दर्शनं एतद्रव्यार्थिकस्य वक्तव्यम् । शुद्धोदनतनयस्य तु परिशुद्धः पर्यवविकल्पः ॥ छाया ॥ 25 यदिति, यत्कापिलं दर्शनं सांख्यमेतदव्यास्तिकनयस्य वक्तव्यं तद्विषयविषयम् , तदु स्थापितञ्चेति भावः, शौद्धोदनेस्तु परिशुद्धः पर्यायविशेष एव वक्तव्यः परिशुद्धपर्यायास्तिक "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy