________________
सोपानम् ]
हेत्वहेतुवादस्वरूपम् |
न्यलक्षणं जीवत्वं स्वसंवेदनाध्यक्षतः स्वात्मनि प्रतीयते परत्र त्वनुमानतः । वनस्पतिपर्यन्तेषु पृथिव्यादिषु स्थावरेषु अनुमानतश्चैतन्यप्रतिपत्तिः, तथाहि वनस्पतयश्चेतनाः, वृक्षायुर्वेदाभिहितप्रतिनियतकालायुष्क विशिष्टौषधप्रयोगसंपादित वृद्धिहा निक्षतभनसंरोहणप्रतिनियतवृद्धि - षड्भावविकारोत्पादनाशावस्थानियत विशिष्टशरीर स्निग्धत्वविशिष्टदौहृद बालकुमार वृद्धावस्थाप्रतिनियत विशिष्टरसवीर्यविपाकप्रतिनियत प्रदेशाहारग्रहणादिमत्वान्यथानुपपत्तेः, विशिष्टस्त्री- 5 शरीरवदित्याद्यनुमानं भाष्यकृत्प्रभृतिभिर्विस्तरतः प्रतिपादितं तचैतन्यप्रसाधकमित्यनुमानतस्तेषां चैतन्यमात्रं सिद्ध्यति, साधारणप्रत्येकशरीरत्वादिकस्तु भेदो 'गूढ सिरसन्धिपव्वं समभंगमहीरणं च छिण्णरुहं । साहारणं सरीरं तव्विवरीयं च पत्तेयं ' [जीव विचार०गा० १२] इत्याद्यागमप्रतिपाद्य एव । जीवलक्षणव्यतिरिक्तलक्षणास्त्वजीवा धर्माधर्माकाशकालपुद्गलभेदेन पञ्चविधाः, तत्र पुगलास्तिकायव्यतिरिक्तानां स्वतो मूर्त्तिमद्रव्यसम्बन्धमन्तरेणात्मद्रव्य- 10 वदमूर्त्तत्वादनुमानप्रत्ययावसेयता, तथाहि गतिस्थित्यवगाहलक्षणं पुद्गलास्तिकायादिकार्यं विशिष्टकारणप्रभवं विशिष्टकार्यत्वात् शाल्यङ्कुरादिकार्यवत्, यश्चासौ कारणविशेषः स धर्माधर्माकाशलक्षणो यथासंख्यमवसेयः । कालस्तु विशिष्टपरापरप्रत्ययादिलिङ्गानुमेयः, पुद्गलास्तिकायस्तु प्रत्यक्षानुमानलक्षणप्रमाणद्वयगम्यः, यस्तेषां धर्मादीनामसंख्येयप्रदेशात्मकत्वादिको विशेषः तत्प्रदेशानाश्च सूक्ष्मसूक्ष्मतरत्वादिको विभागः स ' कालो य होइ सुहुमो' 13 इत्याद्यागमप्रतिपाद्य एव, नागमनिरपेक्षयुक्त्यवसेयः । एवमाश्रवादिष्वपि तत्त्वेषु युक्तया - गमगम्येषु युक्तिगम्यमंशं युक्तित एव आगमगम्यन्तु केवलागमत एव प्रतिपादयन् स्वसमयप्रज्ञापकः, इतरस्तु तद्विराधक इति प्रज्ञापकलक्षणमवगन्तव्यम् ॥ ४२ ॥
यो हेतुसाध्यमर्थ हेतुना आगमसिद्धनागमेन साधयति तस्य नयवादः परिशुद्धः, नान्यस्येत्याह-यद्वा वस्तुधर्मप्रतिपादको ऽहेतुहेतुवादप्रभेद आगमो वाक्यनयरूपः परिशुद्धेतरभेदेन 20 द्विरूपतां प्रतिपद्यत इत्याह
परिसुद्धो नयवाओ आगमेत्तत्थसाहओ होइ ।
सो चैव दुणिगिण्णो दोषिण वि पक्खे विधम्मेइ ॥ ४३ ॥
: २८३ :
परिशुद्धो नयवाद आगममात्रार्थसाधको भवति । स एव दुर्निगीर्णोद्वावपि पक्षौ विधर्मयति ॥ छाया ||
परिशुद्ध इति, समन्ताच्छुद्धो नयवादो यदा विवक्षिता विवक्षितानन्तरूपात्मक वस्तुप्र
१ अस्ति जायते विपरिणमते वर्द्धते विनश्यतीति षड्भावविकाराः ॥
" Aho Shrutgyanam"
25