________________
: २८२ :
सम्मतितस्य सोपाने
[ एकत्रिंशम् ।
पुरुषः, सम्यग्ज्ञानादिपरिपूर्णा परिपूर्णत्वाभ्याम्, लोकप्रसिद्धभव्या भव्य पुरुषवदिति । अहेतुबादागमावगते वा धर्मिणि भव्याभव्यस्वरूपे तदविपरीत निर्णयफलो हेतुवादः प्रवर्तते, योऽयमागमे भव्यादिरभिहितः स तथैव यथोक्तहेतुसद्भावादित्याह --
5
भविओ सम्मदंसणणाणचरित्त पडिवत्तिसंपन्नो । णियमा दुक्खंतकडो त्ति लक्खणं हेउवायरस ॥ ४१ ॥ भव्यः सम्यग्दर्शनज्ञानचारित्रप्रतिपत्तिसम्पन्नः । नियमाद्दुःखान्तकर इति लक्षणं हेतुवादस्य
छाया ||
भव्य इति, भव्योऽयं सम्यग्दर्शनज्ञानचारित्रप्रतिपत्तिसम्पूर्णत्वात् उक्तपुरुषवत् तत्परिपूर्णत्वादेव नियमात्संसारदुःखान्तं करिष्यति कर्मव्याधेरात्यंतिकं विनाशमनुभविष्यति 10 तन्निबन्धनमिथ्यात्वादिप्रतिपक्षाभ्याससात्मीभावात् व्याधिनिदानप्रतिकूलाचरणप्रवृत्ततथाविधातुरवत् । यः पुनर्न तत्प्रतिपक्षाभ्याससात्म्यवात् नासौ दुःखान्तकृद्भविष्यति, तन्निदानानुष्ठानप्रवृत्ततथाविधातुरवदिति हेतुवादस्य लक्षणम्, हेतुवादश्च प्रायो दृष्टिवादः, तस्य द्रव्यानुयोगत्वात् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग : ' [ तत्वार्थ सू० १-१] इत्यादेरनुमानादिगम्यस्यार्थस्य तत्र प्रतिपादनात् यथा चात्रानुमानादिगम्यता तथा गन्धहस्ति15 प्रभृतिभिर्विक्रान्तमिति नेह प्रदश्यते ॥ ४१ ॥
20
' जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तच्त्रम् ' [ तत्त्वार्थ सू० १-४ ] इत्युभयवादागमप्रतिपाद्यान् भावांस्तथैवासङ्कीर्णरूपान् प्रतिपादयन् सैद्धान्तिकः पुरुषः, इतरस्तुतद्विराधक इत्याह
जो उवापक्खम्मि हेउओ आगमे य आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो ॥ ४२ ॥
यो हेतुवादपक्षे हेतु आगमे चागमतः ।
स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः ॥ छाया ||
इति, यो हेतुवादागमविषयमर्थं हेतुवादागमेन तद्विपरीतागमविषयवार्थमागममात्रेण वक्ता प्रदर्शयति स स्वसिद्धान्तस्य द्वादशाङ्गस्य प्रतिपादन कुशलः, अन्यथा प्रतिपादयश्च तदर्थस्य 25 प्रतिपादयितुमशक्यत्वात्तत्प्रतिपाद के वचनेऽनास्थादिदोषमुत्पादयन् सिद्धान्तविराधको भवति, सर्वज्ञप्रणीतागमस्य निस्सारता प्रदर्शनात्तत्प्रत्यनीको भवतीति यावत् । तथाहि पृथिव्यादेर्मनुष्यपर्यन्तस्य षड्विधजीवनिकायस्य जीवत्वमागमेनानुमानादिना च प्रमाणेन सिद्धं तथैव प्रतिपादयन् स्वसमयप्रज्ञापकः, अन्यथा तद्विराधकः । यतः प्रव्यक्तचेतने त्रसनिकाये चैत
"Aho Shrutgyanam"