SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ retवादस्वरूपम् | हेत्वहेतुवादस्वरूपम् । इदानीं विदितनयत्वाद्विशिष्टप्रज्ञः शिष्यो विगृह्य कथनयोग्यः सम्पन्न इति विग्रहकथनोपदेशमाह सोपानम् ] दुविहो धम्मावाओ अहेउवाओ य हेउवाओ य । तत्थ उ अहेउवाओ भवियाऽभवियादओ भावा ॥ ४० ॥ द्विविध धर्माssवादहेतुवादश्च हेतुवादश्च । तत्र त्वहेतुवादो भव्याभव्यादयो भावाः ॥ छाया ॥ : ९८१ 5 द्विविध इति, अथवा प्रत्यक्ष परोक्षरूप आत्मन उपयोगः संक्षेपेण द्विविधः, प्रत्यक्षोपयोगोऽवधिमनः पर्यव केवलभेदेन त्रिविधः, तत्र केवलोपयोगः सकलविषयः प्रागुक्तः, इतरौ चासकलविषयौ अस्मदादिभिरागमगम्यौ । मतिश्रुतभेदेन परोक्षोपयोगोऽपि द्विविधः, 10 तत्राक्षलिङ्गप्रभत्रमत्युपयोगस्य स्वरूपमुक्तम्, श्रुतोपयोगस्य त्वाचार्यस्तद्धेतुभूत हेत्व हेतुवादभेदभिन्नागमप्रतिपादनद्वारेण स्वरूपमाह द्विविध इति, वस्तुधर्माणामस्तित्वादीनां आसमन्ताद्वादः प्रतिपादक आगमोऽहेतुहेतुवादभेदेन द्वैविध्यं प्रतिपद्यते, प्रमाणान्तरानवगतवस्तुप्रतिपादक आगमोऽहेतुवादः, तद्विपरीतस्त्वसौ हेतुवादः हेतोरभिधानात् यस्तु वस्तुस्वरूपप्रतिपादकत्वेऽपि तद्विपरीतोऽसावहेतुवादो दृष्टिवादात् प्रायेणान्यः । तत्र त्वहेतु- 15 वादो भव्यभव्यस्वरूपप्रतिपादक आगमः, तद्विभागप्रतिपादनेऽध्यक्षादेः प्रमाणान्तरस्याप्रवृत्तेः, न ह्ययं भव्योऽयन्त्वभव्य इत्यत्रागममन्तरेण प्रमाणान्तरप्रवृत्तिसम्भवोऽस्मदाद्यपेक्षया || ननु तद्विभागप्रतिपादकं वचो यथार्थमर्हद्वचनत्वात्, अनेकान्तात्मक वस्तुप्रतिपादकवचनवदित्यनुमानात्तद्विभागप्रतिपत्तौ कथं न तस्यानुमानविषयता, न, एवमप्यागमादेव तद्विभागप्रतिपत्तेः, तद्व्यतिरेकेण प्रमाणान्तरस्य तत्प्रतिपत्तिनिबन्धनस्याभावात् । अर्हदाग- 20 मस्य च प्रधानार्थ संवाद निबन्धन तत्प्रणीतत्व निश्चये ऽनुमानतोऽतीन्द्रियार्थविषये प्रामाण्यं निश्चीयत इत्यभ्युपगम्यत एव । आगमनिरपेक्षस्य तु प्रमाणान्तरस्यास्मदादेस्तत्र प्रवृत्तिर्न विद्यत इत्येतावताहेतुवादत्वमेतद्विषयागमस्योच्यत इति ॥ ४० ॥ "Aho Shrutgyanam" वचनव्यापारं केवलमपेक्ष्यायं क्रमः, यदा तु ज्ञानदर्शनचारित्रत्रितये यथावदनुष्ठानप्रवणः तद्विकलश्च प्रतीयते तदाऽनुमानगम्योऽपि तद्विभागो भवति, यथा भव्योऽभव्यो वार्य 25 १ दृष्टयो दर्शनानि नया वा यत्रामी अवतरन्त्यमौ दृष्टिवादः सर्वभावप्ररूपणपरः सर्वोऽयं व्यवच्छिन्नप्रायोऽपि परिकर्मसूत्रपूर्वगतानुयोगचूलिकाभेदेन पञ्चविधः ॥ ३६
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy