SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [विचम् एतदेव दृष्टान्तद्वारेण समर्थयति--- कायमणवयणकिरियारूवाहगई विसेसओ वावि । संजोयभेयओ जाणणाय दवियस्स उप्पाओ ॥ ३९ ।। कायमनोवचनक्रियारूपादिगतिविशेषा वापि । संयोगभेदतो ज्ञातव्याश्च द्रव्यस्योत्पादाः ॥ छाया ॥ कायेति, यदैवानन्तप्रदेशिकाहारभावपरिणतपुद्गलोपयोगोपजातरसरुधिरादिपरिणतिवशाविर्भूतशिरोऽङ्गुल्याद्यङ्गोपाङ्गभावपरिणतस्थूलसूक्ष्मसूक्ष्मतरादिभेदभिन्नावयवात्मकस्य कायस्योत्पत्तिस्तदेवानन्तानन्तपरमाणूपचितमनोवर्गणापरिणति प्रतिलभ्य मनउत्पादोऽपि, तदैव वचनस्यापि कायोत्सृष्टतरवर्गणोत्पत्तिप्रतिलब्धवृत्तिरुत्पादः, तदैव च कायात्मनोरन्योन्यानुप्र10 वेशाद्विषमीकृतासंख्यातात्मप्रदेशे कायक्रियोत्पत्तिः, तदैव च रूपादीनामपि प्रतिक्षणोत्पत्तिवि नश्वराणामुत्पत्तिः, तदैव च मिथ्यात्वाविरतिप्रमादकषायादिपरिणतिसमुत्पादितकर्मबन्धनिमित्ताऽऽगामिगतिविशेषाणामप्युत्पत्तिः, तदैव चोत्सज्यमानोपादीयमानानन्तानन्तपरमाण्यापादिततत्प्रमाणसंयोगविभागानामुत्पत्तिः । यद्वा यदैव शरीरादेव्यस्योत्पत्तिस्तदेव त्रैलो क्यान्तर्गतसमस्तद्रव्यैः सह साक्षात् पारम्पर्येण वा सम्बन्धानामुत्पत्तिः सर्वद्रव्यव्याप्तिव्यव. 15 स्थिताकाशधर्माधर्मादिद्रव्यसम्बन्धात् , तदैव च भाविस्वपयोयपरज्ञानविषयत्वादीनाश्चोत्पाद. नशक्तीनामप्युत्पादः शिरोग्रीवाचञ्चुनेत्रपिच्छोदरचरणाद्यनेकावयवान्तर्भावकमयूराण्डकरसशक्तीनामिव, अन्यथा तत्र तेषामुत्तरकालमप्यनुत्पत्तिप्रसङ्गात् । उत्पादविनाशस्थित्यात्मकाश्च प्रतिक्षणं भावाः शीतोष्णसम्पर्कादिवशादवान्तरसूक्ष्मतरतमादिभेदेन तथैव स्वपरापेक्षया युगपत् क्रमेण चोपलब्धेः, न च तरतमादिभेदेन नवपुराणतया क्रमेणोपलब्धिः प्रतिक्षणं 20 तथोत्पत्तिमन्तरेण सम्भवति । न चास्मदाद्यध्यक्षं निरवशेषधर्मात्मकवस्तुपाहकम् , येना नन्तधर्माणामेकदा वस्तुन्यप्रतिपत्तेरभाव इत्युच्यते, अनुमानतः प्रतिक्षणमनन्तधर्मात्मकस्य तस्य प्रदर्शितन्यायेन प्रतिपत्तेः, सकलत्रैलोक्यव्यावृत्तस्य च वस्तुनोऽध्यक्षेण ग्रहणे तव्यावृ. तीनां पारमार्थिकतद्धर्मरूपतया कथं नानन्तधर्माणां वस्तुन्यभ्यक्षेण ग्रहणम् , अन्यथा तस्य तयावृत्तताऽयोगात् ।। ३९ ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितस्वसोपाने उत्पादादि विशेषनिरूपणं नाम त्रिंशं सोपानम् ।। 25 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy