________________
10
सोपानम् ] उत्पादादिविशेषनिरूपणम् ।
:२७९ : कारणप्रभवमिति वाच्यम् विपर्ययेणापि कल्पनायाः प्रवृत्तिप्रसङ्गात् , अध्यक्षबाधस्यात्रापि समानत्वात् । किञ्च परमाणूनां सर्वदैक रूपमभ्युपगच्छन्नभावमेव तेषामभ्युपगच्छेत् , अकारकत्वप्रसङ्गात् , तच्च प्रागभावप्रध्वंसाभावविकलत्वेनानाधेयातिशयत्वाद्वियस्कुसुमवत् , तदसत्त्वे च कार्यद्रव्यस्याप्यभावः, अहेतोस्तस्यासत्त्वात् । तदभावे च परापरत्वादिप्रत्ययादेरयोगात् कालादेरप्यमूर्तद्रव्यस्याभाव इति सर्वाभावप्रसक्तिः ॥ ३६ ॥ प्रस्तुतमेवाक्षेपद्वारेणोपसंहरति
बहुयाण एगसद्दे जइ संजोगाहि होइ उप्पाओ। णणु एगविभागम्मि वि जुज्जइ बहुयाण उप्पाओ ॥ ३७॥
बहूनामेकशब्दो यदि संयोगैर्भवति उत्पादः ।
ननु एकविभागेऽपि युज्यते बहूनामुत्पादः ॥ छाया ॥ बहनामिति, व्यणुकादीनां संयोगे योकस्य व्यणुकादेः कार्यद्रव्यस्थोत्पादो भवति, अन्यथैकाभिधानप्रत्ययव्यवहारायोगात्, न हि बहुषु एको घट उत्पन्न इत्यादिव्यवहारो युक्तः, नन्वित्यक्षमायाम् , एकस्य कार्यद्रव्यस्य विनाशेऽपि युज्यते एव बहूनां समानजाती. यानां तत्कार्यद्रव्यविनाशात्मकानां प्रभूततया विभक्तानामुत्पाद इति, तथाहि घटविनाशाद्वहूनि कपालानि उत्पन्नानीत्यनेकाभिधानप्रत्ययव्यवहारो युक्तः, अन्यथा तदसम्भवात् , 15 ततः प्रत्येकं त्र्यात्मकात्रिकालाश्चोत्पादादयो व्यवस्थिता इत्यनन्तपर्यायात्मकमेकं द्रव्यम् ॥३७॥
नन्वनन्ते काले भवत्वनन्तपर्यायमेकं द्रव्यम् , एकसमये तु कथं तत्तदात्मकमवसीयते इत्यत्राह
एगसमयम्मि एगदवियरस बहुयावि होति उप्पाया । उपायसमा विगमा ठिईउ उस्सग्गओ णियमा ॥ ३८ ॥ 20
एकसमये एकद्रव्यस्य बहवोऽपि भवन्त्युत्पादाः ।
उत्पादसमा विगमाः स्थितिस्तु उत्सर्गतो नियमात् ॥छाया ॥ एकसमय इति, एकस्मिन् समये एकद्रव्यस्य बहव उत्पादा भवन्ति, उत्पादसमानसंख्या विगमा अपि तस्यैव तदैवोत्पद्यन्ते विनाशमन्तरेणोत्पादस्यासम्भवात् न हि पूर्व पर्यायाविनाशे उत्तरपर्यायो भवति, भावे वा सर्वस्य सर्वकार्यताप्रसक्तिः तदकार्यत्वं वा । कार्यान्तरस्येव स्यात् । स्थितिरपि सामान्यरूपतया तथैव नियता स्थितिरहितस्योत्पादस्याभावात् , भावे वा शशशङ्गादेरप्युत्पत्तिप्रसनात् ॥ ३८ ॥
"Aho Shrutgyanam"