________________
: २७८ सम्मतितत्त्वसोपाने
[ त्रिंशम् तस्तदाऽनुपलम्भे ततस्तत्सत्तासम्बन्धव्यवस्थापनासम्भवात् , ततो न कार्य तदाश्रयः, नाप्यगुस्तदाश्रयः, तस्य कार्यद्रव्यभूतस्याप्याश्रयतया कार्यकार्यभूतगुणयोरेकाश्रयताप्राप्तेः, न चेष्टापत्तिः, तयोः कुण्डबदरवदाश्रयाश्रयिभावेऽकार्यकारणभावप्रसङ्गात्, न वाऽयुतसिद्धयोस्तथा,
अयुतसिद्ध्याऽऽश्रयायिभावविरोधात् , तथाहि अपृथसिद्ध इत्येनन भेदनिषेधः प्रतिपा5 द्यते समवायाभावेऽन्यस्यार्थस्यात्रासम्भवात् , आधाराधेयभाव इत्यनेन चैकत्वनिषेधः क्रियते
इति कथमनयोरेकत्र सद्भावः । यदि च परमाणवः स्वरूपापरित्यागतः कार्यद्रव्यमारमन्ते स्वात्मनोऽव्यतिरिक्तं तदा कार्यद्रव्यानुत्पत्तिप्रसक्तिः, न हि कार्यद्रव्ये परमाणुस्वरूपापरित्यागे स्थूलत्वस्य सद्भावः, तस्य तदभावात्मकत्वात् , तस्मात् परमाणुरूपतापरित्यागेन मृद्रव्यं स्थूल.
कार्यस्वरूपमासादयति तद्रूपतापरित्यागेन च पुनरपि परमाणुरूपतामनुभवतीति वलय. 10 वत् पुद्गलद्रव्यपरिणतेरादिरन्तो वा न विद्यते इति न कार्यद्रव्यं कारणेभ्यो भिन्नम्, न चार्था
न्तरभावगमनं विनाशोऽयुक्त इति तद्पपरित्यागोपादानात्मकस्थितिस्वभावस्य द्रव्यस्य त्रैकाल्यं नानुपपन्नम् । यथा चैकत्वसंख्यासंयोगमहत्त्वापरत्वादिपर्यायः परमाणूनामुत्पत्तेः कार्यरूपाः परमाणवस्तथा बहुत्वसंख्याविभागाल्यपरिमाणपरत्वात्मकत्वेन प्रादुर्भावात् पर
माणवः कार्यद्रव्यवत् तथोत्पन्नाश्चाभ्युपगन्तव्याः। कारणान्वयव्यतिरेकानुविधानोपलम्भस्य 15 कार्यताव्यवस्थानिबन्धनस्यात्रापि सद्भावात् , तदाह तस्मादिति, एकपरिमाणाव्यात् विभक्तः विभागात्मकत्वेनोत्पन्नः अणुरिति अणुर्जातो भवति, एतदवस्थायाः प्राक् तदसत्त्वात् , सत्त्वे वेदानीमिव प्रागपि स्थूलरूपकार्याभावप्रसङ्गात् , इदानी वा तद्रूपता तद्रूपाविशेषात् प्राक्तनावस्थायामिव स्यात् । एवं चतुर्विधकार्यद्रव्याभ्युपगमोऽसङ्गतः, न च य एव कार्यद्रव्यार
म्भकाः परमाणवः त एव तद्रव्यविनाशोत्तरकालं स्वरूपेण व्यवस्थिताः, कार्यद्रव्यप्रागभाव. 20 प्रध्वंसाभावयोरेकत्वविरोधात्, घटद्रव्यप्रागभावप्रध्वंसाभावमृत्पिण्डकपालवत् । न च प्राग
भावप्रध्वंसाभावयोस्तुच्छरूपतया मृत्पिण्डकपालरूपत्वमसिद्धम् , तुच्छरूपाभावस्य प्रमाणाजनकत्वेन तदविषयत्वतो व्यवस्थापयितुमशक्यत्वात् । न च कपालसंयोगात् घटद्रव्यमुपजायते तद्विभागाच्च विनश्यतीति मृत्पिण्डस्य घटद्रव्यं प्रति समवायिकारणत्वमयुक्तमिति
वाच्यम् , अध्यक्षत एव मृत्पिण्डोपादानत्वेन तस्य प्रतीतेः अत एव घटस्य कपालसमवायि25 कारणत्वानुमानमध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टम् । न चाल्प
परिमाणतन्तुप्रभवं महत्परिमाणं पटकार्यमुपलब्धमिति घटादिकमपि तदल्पपरिमाणानेक
२ यथा हि घटद्रव्यप्रागभावो मृत्पिण्डात्मको घटद्रव्यप्रध्वंसाभावश्च कपालात्मा, तयोरेकत्वं विरुद्धं तथैव परमाणोस्तादवस्थ्ये भाविकार्यद्रव्यप्रागभावात्मा भूतकार्यध्वंसात्मा स भवेत् , विरुद्धश्च तथाभ्युपंगम इति परमाणोः कथञ्चिन्निवृत्तिरभ्युपेयेति भावः ॥
"Aho Shrutgyanam"