SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] उत्पादादिविशेषनिरूपणम् । समानजातीयानि इत्यभ्युपगमः परित्यज्यताम् , यतो न परमाणुद्वयणुकादीनामपरित्यक्ताजनकावस्थानामनङ्गीकृतस्वकार्यजननस्वभावानाच द्यणुकत्र्यणुकादिकार्यनिर्वर्तकत्वम् , अन्यथा प्रागपि तत्कार्यप्रसङ्गात् । अथ न तेषामजनकावस्थात्यागतो जनकस्वभावान्तरोत्पत्तौ कार्य. जनकत्वं किन्तु पूर्वस्वभावव्यवस्थितानामेव संयोगलक्षणसहकारिशक्तिसद्भावात् कार्यनिर्वर्तकत्वं प्राक् तु तदभावान्न कार्योत्पत्तिः कारणानामविचलितस्वरूपत्वेऽपि । न च संयो- 5 गेन तेषामनतिशयो व्यावय॑ते, अतिशयो वा कश्चिदुत्पद्यते, अभिन्नो वा भिन्नो वा संयोगस्यैवातिशयत्वात् । न च कथमन्यस्तेषां संयोगोऽतिशय इति वाच्यम् , अनन्यस्याप्यतिश. यत्वायोगात् , न हि स एव तस्यातिशय इत्युपलब्धम् , तस्मात्तत्संयोगे सति कार्यमुपलभ्यते तदभावे तु नोपलभ्यत इति संयोग एव कार्योत्पादने तेषामतिशय इति न तदुत्पत्तौ तेषां स्वभावान्तरोत्पत्तिः संयोगाऽतिशयस्य तेभ्यो भिन्नत्वादिति मैवम् , यतः कार्योत्पत्तौ तेषां 10 संयोगोऽतिशयो भवतु, संयोगोत्पत्तौ तु तेषां कोऽतिशय इति वाच्यम् , न तावत् स एव संयोगस्त स्याधाप्यनुत्पत्तेः, नापि संयोगान्तरं तस्यानभ्युपगमात् , अभ्युपगमेऽपि तदुत्पत्ता. वप्यपरसंयोगातिशयप्रकल्पनायामनवस्थाप्रसक्तेः । न च क्रियाऽतिशयः, तदुत्पत्तावपि पूर्वो दोषप्रसङ्गात्, किश्चादृष्टापेक्षात्माणुसंयोगात् परमाणुक्रियोत्पद्यत इत्यभ्युपगमादात्मपरमाणुसंयोगोत्पत्तावप्यपरोऽतिशयो वाच्यः तत्र च तदेव दूषणम् । किश्वासौ संयोगो द्यणुक- 15 निर्वर्तकः किं परमाण्वाश्रितः, उत तदन्याश्रितः किंवाऽनाश्रितः, प्रथमेऽपि तदुत्पत्तौ यदि परमाणुरुत्पद्यते तदा संयोगवत्तस्य कार्यताप्रसङ्गः, यदि नोत्पद्यते तदा संयोगस्तदाश्रितो न स्यात् , समवायस्याभावात् , परमाणूनां संयोगं प्रत्यकारकत्वात् , तद. कारकत्वन्तु तत्र तस्य प्रागभावानिवृत्तेः, तदन्यगुणान्तरवत् , ततस्तेषां कार्यरूपतया परिणतिरभ्युपगन्तव्या, अन्यथा तदाश्रितत्वं संयोगस्य न स्यात्, अन्याश्रितत्वेऽपि 20 पूर्वोक्तदोषप्रसङ्गः, अनाश्रितत्वे तु निर्हेतुकोत्पत्तिप्रसक्तिः । अथ संयोगस्यानुत्पादाङ्गीकारे तस्य सद्रूपत्वे नित्यताप्रसङ्गोऽकारणत्वात् , अथास द्रूपत्वं तर्हि कार्यानुदयः स्यात् , तदभावे प्राग्वत् विशिष्टपरिणामोपेतकार्यद्रव्योत्पत्यभावात् , तथा च जगतोऽदृश्यताप्रसक्तिरिति संयोगैकत्वसंख्यापरिमाणमहत्त्वपरत्वाद्यनेकगुणानां तत्रोत्पत्तिरभ्युपेया कारणगुणपूर्व प्रक्रमेण कार्योत्पत्यभ्युपगमात् , इष्टमेवैतदिति चेन्न, आश्रयस्य वाच्यत्वात , न च 25 कार्यमाश्रयः, तदुत्पत्तेः प्राक् तस्यासत्त्वात् , सत्त्वे वोत्पत्तिविरोधात् , न च निर्गुणमेव कार्य गुणोत्पत्तेः प्रागस्तीति वक्तव्यम् , गुणसम्बन्धवत्सत्तासम्बन्धस्याप्याचक्षणेऽभावेन तत्सत्त्वासम्भवात् । न चोत्पत्तिकाल एव सत्तासम्बन्धः, रूपादिगुणसमवायाभाव १ उत्पन्नद्रव्यस्य क्षणं निर्गुणत्वनिष्क्रियत्ववन्निःसामान्यताया अपि दुरितैवेति भावः । "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy