________________
: २७६ :
5
10
सम्मतितत्त्व सोपाने
दव्वंतरसंयोगाहि केचिदवियरस बेंति उप्पायं । उपायत्थाकुसला विभागजायं ण इच्छति ।। ३५ ।।
द्रव्यान्तरसंयोगैः केचिद्द्रव्यस्य ब्रुवत उत्पादम् | उत्पादार्थकुशला विभागजातं नेच्छन्ति ॥ छाया ॥
द्रव्यान्तरेति, सजातीयद्रव्यान्तरादेव समवायिकारणात्तत्संयोगासमवायिकारणनिमित्तकारणा दिसव्यपेक्षादवयवि कार्यद्रव्यं भिन्नं कारणद्रव्येभ्य उत्पद्यत इति द्रव्यस्योत्पादं केचन ब्रुवते, ते चोत्पादार्थानभिज्ञा विभागजातं नेच्छन्ति ॥ ३५ ॥
कुतः पुनर्विभागजोत्पादानभ्युपगमवादिन उत्पादार्थानभिज्ञा इत्यत्राह -
अणु दुअणुएहिं दवे आरद्धे तिअणुयंति व एसो । तत्तो य पुर्ण विभत्तो अणुत्ति जाओ अणू होइ || ३६ ||
अणुः द्व्यणुकाभ्यां द्रव्ये आरब्धे व्यणुकमिति व्यपदेशः । ततश्च पुनर्विभक्तः अणुरिति जातोऽणुर्भवति ॥ छाया ||
[ त्रिंशम्
अणुरिति, द्वाभ्यां परमाणुभ्यां कार्यद्रव्ये आरब्धे अणुरिति व्यपदेशः परमाणुद्वयारsutraणुकस्याणुपरिमाणत्वात्, त्रिभिश्चतुर्भिर्वा द्व्यणुकैरारब्धे व्यणुकमिति व्यपदेशः, अ15 न्यथोत्पत्तावुपलब्धिनिमित्तस्य महत्त्वस्याभावप्रसक्तेः । अत्र किल त्रिभिश्चतुर्भिर्वा प्रत्येकं परमाणुभिरारब्धमणुपरिमाणमेव कार्यमिति व्यादिपरमाणूनामारम्भकत्वे आरम्भवैयर्थ्यप्रसक्तिरिति द्वाभ्यां परमाणुभ्यां द्व्यणुकमारभ्यते, त्र्यणुकमपि न द्वाभ्यामणुभ्यामारभ्यते, कारण विशेषपरिमाणतोऽनुपभोग्यत्वप्रसक्तः, यतो महत्त्वपरिमाणयुक्तं तदुपलब्धियोग्यं स्यात्, तथा चोपभोग्यं कारण बहुत्व महत्त्व प्रचयजन्यश्च महत्वम्, न च द्वित्रिपरमाण्वारब्धे कार्ये महत्त्वम्, 20 तत्र महत्परिमाणाभावात् तेषामणुपरिमाणत्वात् प्रचयोऽप्यवयवाभावान्न सम्भवति तेषाम् । नापि द्वाभ्यामणुभ्यां कारण बहुत्वाभावात् न प्रचयोऽपि प्रशिथिलावयवसंयोगाभावात्, उपलभ्यते च समानपरिमाणैस्त्रिभिः पिण्डैरारब्धे कार्ये महत्वं न द्वाभ्यामिति महत्परिमाणाभ्यां ताभ्यामेवारब्धे महत्त्वम्, न त्रिभिरल्पपरिमाणैरारब्ध इति समानसंख्या तुला परिमाणाभ्यां तन्तुपिण्डाभ्यामारुधे पटादिकार्ये प्रशिथिलावयवतन्तुसंयोगकृतं महत्त्वमुपलभ्यते न तदितरत्रेति । नन्वेवं यदि कार्यारम्भस्तदा द्रव्याणि द्रव्यान्तरमारभन्ते द्वे बहूनि वा
25
१ कचित्कारणतं बहुत्वं कचिन्महत्वं कचित्र प्रचयः कार्यगते महत्त्व कारणम्, तत्र प्रचयो नाम शिथिलाख्योऽवयव संयोगविशेष इति नैयायिकास्तदेतन्मतं प्रथमं प्रदर्श्य नन्वेवमित्यादिना निराक्रियते ॥
"Aho Shrutgyanam"