SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] उत्पादादिविशेषनिरूपणम् । उपजमाणकालं उत्पष्णं ति विगयं विगच्छतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥ ३४ ॥ उत्पद्यमान कालमुत्पन्नमिति विगतं विगच्छत् । द्रव्यं प्रज्ञापर्यस्त्रिकालविषयं विशिनष्टि || छाया ॥ : २७५ : उत्पद्यमानेति, उत्पद्यमानसमय एव यत्किचित् पटद्रव्यं तावदुत्पन्नं यद्येकतन्तुप्रवेश- 5 क्रियासमये तद्द्रव्यं तेन रूपेण नोत्पन्नं तर्छुत्तरत्रापि तन्नोत्पन्नमित्यत्यन्तानुत्पत्तिप्रसक्तिस्तस्य स्यात्, न चोत्पन्नांशेन तेनैव पुनस्तदुत्पद्यते तावन्मात्रपटादिद्रव्योत्पत्तिप्रसक्तेरुत्तरोत्तरक्रियाक्षणस्य तावन्मात्रफलोत्पादने एव प्रक्षयादपर फलान्तरस्यानुत्पत्तिप्रसक्तेः, यदि च विद्यमाना एकतन्तुप्रवेशक्रिया न फलोत्पादिका विनष्टा सुतरां न भवेत्, असत्त्वादनुत्पत्यवस्थावत्, न ह्यनुत्पन्नविनष्टयोरसत्त्वे कश्चिद्विशेषः । ततः प्रथमक्रियाक्षणः केनचिद्रूपेण 10 द्रव्यमुत्पादयति द्वितीयस्त्वसौ तदेवांशान्तरेणोत्पादयति, अन्यथा क्रियाक्षणान्तरस्य वैफल्यप्रसक्तेः, एकांशेनोत्पन्नं सदुत्तरक्रियाक्षणफलांशेन यद्यपूर्वमपूर्व तदुत्पद्येत तदोत्पन्नं भवेनान्यथेति प्रथमतन्तुप्रवेशादारभ्यान्त्यतन्तु संयोगावधिं यावदुत्पद्यमानं प्रबन्धेन तद्रूपतयोत्पन्नमभिप्रेत निष्ठा रूपतया चोत्पत्स्यत इत्युत्पद्यमानमुत्पन्नमुत्पत्स्यमानश्च भवति, एवमुत्पन्नमपि उत्पद्यमानमुत्पत्स्यमानश्च भवति, तथोत्पत्स्यमानमपि उत्पद्यमानमुत्पन्नचेत्येकैक- 15 मुत्पन्नादिकालत्रयेण यथा त्रैकाल्यं प्रतिपद्यते तथा विगच्छदादिकालत्रयेणाप्युत्पादादि रेकैकः त्रैकाल्यं प्रतिपद्यते, तथाहि यथा यद्यदेवोत्पद्यते तत्तदैवोत्पन्नमुत्पत्स्यते च यद्यदेवोत्पन्नं तत्तदैवोत्पद्यते उत्पत्स्यते च यद्यदेवोत्पत्स्यते तत्तदैवोत्पद्यते उत्पन्नव । तथा तदेव तदैव यदुत्पद्यते तत्तदैव विगतं विगच्छद्विगमिष्यच्च तथा यदेव यदैवोत्पन्नं तदेव तदैव विगतं विगच्छद्विगमिष्यच तथा यदेव यदैवोत्पत्स्यते तदेव तदैव विगतं विगच्छद्विगमि- 20 s, एवं विगमोऽपि त्रिकाल उत्पादादिना दर्शनीयः, तथा स्थित्यापि त्रिकाल एव सप्रपञ्चः प्रदर्शनीयः, एवं स्थितिरपि उत्पादविनाशाभ्यां सप्रपञ्चाभ्यामेकैकाभ्यां त्रिकालाप्रदर्शनीयेति द्रव्यमन्योन्यात्मकतथा भूतकालत्रयात्मकोत्पादविनाशस्थित्यात्मकं प्रज्ञापर्यत्रिकालविषयप्रादुर्भवद्धर्माधारतया तद्विशिनष्टि, अनेन प्रकारेण त्रिकालविषयं द्रव्यस्वरूपं प्रतिपादितं भवति, अन्यथा द्रव्यस्याभावात् तद्वचनस्य मिध्यात्वप्रसक्तिरिति भावः ॥ ३४ ॥ 25 नन्वर्थान्तरगमनलक्षणस्य विनाशस्यासम्भवाद्विभागजस्य चोत्पादस्य तद्वयाभावे स्थि तेरप्यभावात् तत्रैकाल्यं दूरोत्सारितमेवेति मन्यमानान् वादिनः प्रति तदभ्युपगम प्रदर्शन पूर्वकमाह- "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy