________________
: २७४ :
सम्मतितस्य सोपाने
[ त्रिंशम्
तव्या न च क्रियाफलमेव क्रियाधारः, तस्य प्रागसत्त्वात्, सत्वे वा क्रियावैफल्यात्, ततस्त्रयाणामभिन्नकालत्वात्तदव्यतिरिक्तं द्रव्यमभिन्नम् । न च घटोत्पादविनाशापेक्षया भिन्नकालतयाऽर्थान्तरत्वम् कुशूलघटविनाशोत्पादापेक्षयाऽभिन्न कालत्वेनानर्थान्तरत्वादेकान्त इति वक्तव्यम्, द्रव्यस्य पूर्वावस्थायां भिन्नाभिन्नतया प्रतीयमानस्योत्तरावस्थायामपि भिन्ना5 भिन्नतया तस्यैव प्रतीतेरनेकान्ताव्याहते: । न चावाधिताध्यक्षादिप्रतिपत्तिविषयस्य तस्य विरोधाद्युद्भावनं युक्तिसङ्गतं सर्वप्रमाणप्रमेयव्यवहार विलोपप्रसङ्गात्, अत एवार्थान्तरमनर्थान्तरोत्पादादयो द्रव्यात्, तद्वा तेभ्यस्तथेति प्रतिज्ञेयम्, द्रव्यात्तथाभूततद्वाहकत्व परि णतादात्मलक्षणात् प्रमाणादित्यपि व्याख्येयम्, न हि तथाभूतप्रमाणप्रवृत्तिस्तथाभूतार्थमन्तरेणोपपन्ना धूम इव धूमध्वजान्तरेण, संवेद्यते च तथाभूतप्राह्यग्राहकरूपतया अनेकान्तात्मकं 10 प्रमाणमिति न तदपलापः कर्तुं शक्यः, अन्यथातिप्रसङ्गात् । यद्वा देशादिविप्रकृष्टा उत्पत्तिबिनाशस्थितिस्वभात्रा भिन्नाभिन्नकाला अर्थान्तरानर्थान्तररूपाः, द्रव्यत्वात् द्रव्याव्यतिरिक्त स्वादित्यर्थः, अन्यथोत्पादादीनामभावप्रसक्तेः, तेभ्यो वा द्रव्यमर्थान्तरानर्थान्तरम् द्रव्यत्वात् प्रतिज्ञार्थकदेशता च हेतोर्नाशङ्कनीया द्रव्यविशेषे साध्ये द्रव्यसामान्यस्य हेतुत्वेनोपन्यासात् ॥ ३२ ॥
15
अत्रैवार्थे प्रत्यक्षप्रतीतमुदाहरणमाह
20
जो आउंचणकालो सो चेव पसारियस्स वि ण जुत्तो । तेसिं पुण पडिवत्तीविगमे कालंतरं णत्थि ॥ ३३ ॥
य आकुञ्चनकालः स एव प्रसारितस्यापि न युक्तः । तयोः पुनः प्रतिपत्तिविगमयोः कालान्तरं नास्ति ॥ छाया ||
य इति अङ्गुल्यादेर्द्रव्यस्य य आकुञ्चनकालः स एव तत्प्रसारणस्य न युक्तः भिन्नकालतया आकुचनप्रसारणयोः प्रतीतेस्तयोर्भेदः, अन्यथा तयोः स्वरूपाभावापत्तेः, तत्तत्पर्यायाभिन्नस्याङ्गुल्यादिद्रव्यस्यापि तथाविधत्वात्तदपि भिन्नमभ्युपगन्तव्यमन्यथा तदनुपलम्भात्, अभिन्नञ्च, तदवस्थयोस्तस्यैव प्रत्यभिज्ञायमानत्वात् । तयोः पुनरुत्पादविनाशयोः प्रतिपत्तिः प्रादुर्भावः, विगमो विपत्तिः तत्र कालान्तरं भिन्नकालत्वमङ्गुलिद्रव्यस्य च नास्ति, 25 पूर्वपर्यांयविनाशोत्तरपर्यायोत्पत्त्यङ्गुलिद्रव्यावस्थितीनामभिन्नकालताऽभिन्नरूपता च प्रतीयते, एकस्यैव द्रव्यस्य तथाविवर्त्तात्मकस्याध्यक्षतः प्रतीतेः ॥ ३३ ॥
यथोत्पादव्ययस्थितीनां प्रत्येकमेकैकं रूपं त्र्यात्मकं तथाभूतवर्त्तमान भविष्यद्भिरध्येकैकं रूपं त्रिकालतामासादयतीत्याह
"Aho Shrutgyanam"