SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सोपानम् . ] उत्पादादिविशेषनिरूपणम् । भावात् पूर्वावस्थाविगमव्यतिरेकेण उत्तरावस्थोत्पत्त्यनुपपत्तेः, न हि बीजादीनामविनाशेऽङ्कुरादिकार्यप्रादुर्भावो दृष्टः, न चावगाहगतिस्थित्याधारत्वं तदनाधारत्वस्वभावप्राक्तनावस्थाभ्वं समन्तरेण सम्भवति तत्र समुदयजनिते यो विनाशः स उभयत्रापि द्विविधः एकः समुदयविभागमात्रप्रकारो विनाशः, यथा पटादेः कार्यस्य तत्कारणपृथक्करणे तन्तुविभागमात्रम्, द्वितीप्रकारस्वर्थान्तरभाव गमनं विनाशः, यथा मृत्पिण्डस्य घटार्थान्तरभावनोत्पादो विनाशः । न 5 चार्थान्तररूपविनाशविनाशे मृत्पिण्डप्रादुर्भावप्रसक्तिरिति वक्तव्यम्, पूर्वोत्तरकालावस्थयोरसंकीर्णत्वात्, अतीततरत्वेन प्राक्तनावस्थाया उत्पत्तेः, अतीतस्य च वर्त्तमानताऽयोगात्, तयोः स्वस्वभावापरित्यागतस्तथानियतत्वात्, तुच्छरूपस्य स्वभावस्याभाव: स्यादपि तदभावरूपः, न तु वस्त्वन्तरादुपजायमानं वस्त्वन्तरमतीततरावस्थारूपं भवितुमर्हति, तरतमप्रत्ययार्थव्यवहाराभावप्रसक्तेः ॥ ३१ ॥ न चोत्पादविनाशयोरैकान्तिकतद्रूपताऽभ्युपगमेऽनेकान्तवादव्याघातः, कथञ्चित्तयोस्तद्रूपत्वाभ्युपगमादित्याह— तिणि वि उपायाई अभिष्णकालो य भिण्णकाला य । अत्यंतरं अणत्थंतरं च दवियाहि गायत्र्वा ॥ ३२ ॥ योऽप्युत्पादादयोऽभिन्नकालाश्च भिन्नकालाश्च । अर्थान्तरमनर्थान्तरञ्च द्रव्याज्ज्ञातव्याः || छाया ॥ त्रय इति, उत्पादविगम स्थितिस्वभावास्त्रयोऽपि परस्परतोऽन्यकालाः, यतो न पटादेरुस्यादसमय एव विनाशः, तस्यानुत्पत्तिप्रसक्तेः, नापि तद्विनाशसमये तस्यैवोत्पत्तिः, अविनाशापत्तेः, न च तत्प्रादुर्भाव समय एव तस्थितिः, तद्रूपेणैवास्थितस्यानवस्थाप्रसक्तितः प्रादुर्भावायोगात्, न च घटरूपमृत्स्थितिकाले तस्याविनाश:, तद्रूपेणावस्थितस्य विनाशा - 20 नुपपत्तेः न च घटविनाशविशिष्टमृत्काले तस्या एवोत्पादो दृष्टः, नापि तदुत्पादविशिष्ट - मृत्समये तस्या एव ध्वंसोऽनुत्पत्तिप्रसङ्गत एव ततस्त्रयाणामपि भिन्नकालत्वात्तद्द्रव्यमर्थान्तरं नानास्वभावम्, न धन्योऽन्यव्यतिरिक्तकालोत्पादविगमध्रौव्याव्यतिरिक्त मेकस्वरूपं द्रव्यमुपपद्यते, तस्य तेभ्योऽभेदप्रसक्तेः । न च तद्भिन्नमेवास्तु, तत्रितयविकलस्य तस्य तथाऽनुपलब्धितोऽसत्वात् न चैकस्य द्रव्यस्याभावादने कान्ताभावप्रसक्तिः, यतोऽभि- 25 नकालाश्वोत्पादादयः, न हि कुशूलविनाशघटोत्पादयोर्भिन्नकालता, अन्यथा विनाशात् कार्योत्पत्तिः स्यात्, घटाद्युत्तरपर्यायानुत्पत्तावपि प्राक्तन पर्यायध्वंसप्रसक्तिश्च स्यात्, पूर्वोत्तरपयाविनाशोत्पादक्रियाया निराधाराया अयोगात्तदाधारभूतद्र व्यस्थितिरपि तदाऽभ्युपग ३५ "Aho Shrutgyanam" : २७ : 10 15
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy