Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 351
________________ सोपानम् कणादोक्तशेयनिरसनम् । : २९९ वृत्ति पतनक्रियानिबन्धनम् , द्रवत्वं पृथिव्युदकज्वलनवृत्ति स्यन्दनहेतुः, स्निग्धप्रत्ययहेतुः स्नेहस्त्वम्भसीत्यादिप्रक्रिया पृथिव्यादीनामाधारत्वनिषेधात् तद्गतरूपादिनिषेधाच निषिद्धैव, वेगभावनास्थितिस्थापकभेदः संस्कारः तत्र वेगो मूर्तिमद्रव्येषु प्रयत्नाभिधानविशेषापेक्षात् कर्मणो जायते नियतदिक्रियाप्रबन्धहेतुः स्पर्शद्रव्यसंयोगविरोधी च । भावना चात्मगुणो ज्ञानजो ज्ञानहेतुश्च दृष्टानुभूत श्रुतेष्वर्थेषु स्मृतिप्रत्यभिज्ञान कार्योन्नीयमानसद्भावः । मूर्तिमद्र- 5 व्यगुणः स्थितिस्थापकः स हि घनावयवसन्निवेशविशिष्टं कालान्तरस्थायिनं स्वमाश्रयं प्रयत्नेनान्यथाकृतं पूर्ववद्यथावस्थितं स्थापयतीति परमतम् , तदसत् , क्षणभङ्गसिद्धौ वेगाख्यसंस्कारकार्यस्य कर्मप्रबन्धस्यासिद्धेः, न झुत्पत्त्यनन्तरविनाशिनि भावे नियतदिक्रियाप्रबन्धस्य तद्धतोश्च संस्कारस्योत्पत्तिः । न च स्वोपादानदेशपरिहारेणानन्तरदेशोत्पाद एव भावानां क्रियाप्रबन्ध इति वाच्यम् , ततो हि प्राक्तनस्व हेतव एव सेत्स्यन्ति न यथोक्तसंस्कारः, तेन 10 सह कचिदप्यन्वयासिद्धेः । यदि च तथाविधसंस्कारादिष्वादीनामएतनं स्यात्तदा न कदाचिदपि ते पतेयुः सर्वदा पातप्रतिबन्धहेतोगस्यावस्थितत्वात् , एवञ्चाकाशप्रसर्पिणः शरस्याकस्माद्यदेतत्पतनमुपलभ्यते तत्कथमुपपद्यते, न च मूर्त्तिमतां सतां वात्रादीनां संयोगादुपहतशक्तित्वाद्वेगस्य विनाशात् पतनमिति वक्तुं शक्यम् , अर्वागेव पतनप्रसङ्गात , तद्विरोधिनो वायुसंयोगस्य सर्वत्रैव सत्त्वात् । न च तदानीं वेगो बलीयान् , पश्चात्तस्याबलीयस्त्वे हेत्वभावात् , 15 न च तदानीं तदुत्पादककर्मणोऽभावाहुर्बल इति वाच्यम् , तस्याप्यभावे निमित्ताभावात् । भावनापि सामान्यतः स्मृत्या दिकार्यात्साध्यते यदि तदा सिद्धसाध्यता, पूर्वानुभवाहितसामर्थ्यलक्षणज्ञानात्मभूतायास्तस्याः स्मृति हेतुत्वेनाभ्युपगमात् , यस्या वसनात्वेन प्रसिद्धिः । अथात्मगुणस्वरूपा भावना सिषाधयिषिता तदा न हेतोरन्वयित्वम् , तथाविधया सह स्मृत्यादीनामन्य. यासिद्धेः, ये यदाश्रिता ते तस्याभावे नावस्थितिमश्नुवते यथा चित्रं कुण्ड्याद्यभावे, आश्रित• 20 श्वात्मानं संस्कारः परमतेनेति व्यापकविरुद्धोपलब्धेः संस्कारस्यासत्त्वादनुमानबाधिता प्रतिज्ञा च, आत्मनः प्रानिषिद्धत्वात् । स्थितिस्थापकोऽप्यत्यन्तमसङ्गत एव, स्वयमस्थिरस्वभावस्य पदार्थस्यानेन स्थापयितुमशक्यत्वात् , क्षणादूचं तस्याभावात् ,स्थिरस्वभावस्य चाप्रच्युतस्थितरूपत्वात् स्थापकस्याकिश्चित्करतैव । न च सर्वभावानां क्षणिकत्वेऽपि एकक्षणावस्थितौ प्रबन्धेनोत्तरकालमनुवृत्तौ तस्य सामर्थ्य मिति वाच्यम् , स्वरूपप्रतिलम्भलक्षणैव हि भावानां 25 १ वेगः क्रियाविशेषः स चात्मन्यपि वर्तते न च क्रियातोऽर्थान्तरं वेगः, वेगेन गच्छति शीघ्रं गच्छतीति पर्यायत्वात् , न च क्रियातः क्रियोत्पादेऽनुपरमः स्यादिति वाच्यम् , शब्दस्य शब्दान्तरारम्भकत्वेऽपि तदुपरमादिवास्या अप्युपरमसम्भवादित्यपि बोध्यम् ॥ २ अत्र प्रतिषेध्यावस्थितिप्राप्तिः, तव्यापक आश्रयसदावः, तद्विरुद्धस्याश्रयाभावस्योपलब्धिपिकविरुद्धोपलब्धिः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420