________________
सोपानम् कणादोक्तशेयनिरसनम् ।
: २९९ वृत्ति पतनक्रियानिबन्धनम् , द्रवत्वं पृथिव्युदकज्वलनवृत्ति स्यन्दनहेतुः, स्निग्धप्रत्ययहेतुः स्नेहस्त्वम्भसीत्यादिप्रक्रिया पृथिव्यादीनामाधारत्वनिषेधात् तद्गतरूपादिनिषेधाच निषिद्धैव, वेगभावनास्थितिस्थापकभेदः संस्कारः तत्र वेगो मूर्तिमद्रव्येषु प्रयत्नाभिधानविशेषापेक्षात् कर्मणो जायते नियतदिक्रियाप्रबन्धहेतुः स्पर्शद्रव्यसंयोगविरोधी च । भावना चात्मगुणो ज्ञानजो ज्ञानहेतुश्च दृष्टानुभूत श्रुतेष्वर्थेषु स्मृतिप्रत्यभिज्ञान कार्योन्नीयमानसद्भावः । मूर्तिमद्र- 5 व्यगुणः स्थितिस्थापकः स हि घनावयवसन्निवेशविशिष्टं कालान्तरस्थायिनं स्वमाश्रयं प्रयत्नेनान्यथाकृतं पूर्ववद्यथावस्थितं स्थापयतीति परमतम् , तदसत् , क्षणभङ्गसिद्धौ वेगाख्यसंस्कारकार्यस्य कर्मप्रबन्धस्यासिद्धेः, न झुत्पत्त्यनन्तरविनाशिनि भावे नियतदिक्रियाप्रबन्धस्य तद्धतोश्च संस्कारस्योत्पत्तिः । न च स्वोपादानदेशपरिहारेणानन्तरदेशोत्पाद एव भावानां क्रियाप्रबन्ध इति वाच्यम् , ततो हि प्राक्तनस्व हेतव एव सेत्स्यन्ति न यथोक्तसंस्कारः, तेन 10 सह कचिदप्यन्वयासिद्धेः । यदि च तथाविधसंस्कारादिष्वादीनामएतनं स्यात्तदा न कदाचिदपि ते पतेयुः सर्वदा पातप्रतिबन्धहेतोगस्यावस्थितत्वात् , एवञ्चाकाशप्रसर्पिणः शरस्याकस्माद्यदेतत्पतनमुपलभ्यते तत्कथमुपपद्यते, न च मूर्त्तिमतां सतां वात्रादीनां संयोगादुपहतशक्तित्वाद्वेगस्य विनाशात् पतनमिति वक्तुं शक्यम् , अर्वागेव पतनप्रसङ्गात , तद्विरोधिनो वायुसंयोगस्य सर्वत्रैव सत्त्वात् । न च तदानीं वेगो बलीयान् , पश्चात्तस्याबलीयस्त्वे हेत्वभावात् , 15 न च तदानीं तदुत्पादककर्मणोऽभावाहुर्बल इति वाच्यम् , तस्याप्यभावे निमित्ताभावात् । भावनापि सामान्यतः स्मृत्या दिकार्यात्साध्यते यदि तदा सिद्धसाध्यता, पूर्वानुभवाहितसामर्थ्यलक्षणज्ञानात्मभूतायास्तस्याः स्मृति हेतुत्वेनाभ्युपगमात् , यस्या वसनात्वेन प्रसिद्धिः । अथात्मगुणस्वरूपा भावना सिषाधयिषिता तदा न हेतोरन्वयित्वम् , तथाविधया सह स्मृत्यादीनामन्य. यासिद्धेः, ये यदाश्रिता ते तस्याभावे नावस्थितिमश्नुवते यथा चित्रं कुण्ड्याद्यभावे, आश्रित• 20 श्वात्मानं संस्कारः परमतेनेति व्यापकविरुद्धोपलब्धेः संस्कारस्यासत्त्वादनुमानबाधिता प्रतिज्ञा च, आत्मनः प्रानिषिद्धत्वात् । स्थितिस्थापकोऽप्यत्यन्तमसङ्गत एव, स्वयमस्थिरस्वभावस्य पदार्थस्यानेन स्थापयितुमशक्यत्वात् , क्षणादूचं तस्याभावात् ,स्थिरस्वभावस्य चाप्रच्युतस्थितरूपत्वात् स्थापकस्याकिश्चित्करतैव । न च सर्वभावानां क्षणिकत्वेऽपि एकक्षणावस्थितौ प्रबन्धेनोत्तरकालमनुवृत्तौ तस्य सामर्थ्य मिति वाच्यम् , स्वरूपप्रतिलम्भलक्षणैव हि भावानां 25
१ वेगः क्रियाविशेषः स चात्मन्यपि वर्तते न च क्रियातोऽर्थान्तरं वेगः, वेगेन गच्छति शीघ्रं गच्छतीति पर्यायत्वात् , न च क्रियातः क्रियोत्पादेऽनुपरमः स्यादिति वाच्यम् , शब्दस्य शब्दान्तरारम्भकत्वेऽपि तदुपरमादिवास्या अप्युपरमसम्भवादित्यपि बोध्यम् ॥ २ अत्र प्रतिषेध्यावस्थितिप्राप्तिः, तव्यापक आश्रयसदावः, तद्विरुद्धस्याश्रयाभावस्योपलब्धिपिकविरुद्धोपलब्धिः ।
"Aho Shrutgyanam"