SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ . २९८. सम्मतितरवसोपाने [ द्वात्रिंशम् बुद्धिसहितात् महत्वादेरुत्पत्तिः स्यात्, तयोरेकत्वेन निरव यवत्वात् । न चैवं संख्यादयो गुणा द्रव्यान्नाव्यतिरेकिणः, तेषां तद्व्यवच्छेदहेतुत्वात् , देवदत्तव्यवच्छेदकदण्डादिवदित्य. नुमानात्तेषां द्रव्याद्भेदः सिद्ध्यतीति वाच्यम् , संवृतिसतामवस्तुतया तत्वान्यत्वाभ्याम वाच्यताया अभीष्टत्वेन सामान्यतोऽव्यतिरेकनिषेधमात्रसाधने सिद्धसाध्यताप्रसङ्गात् । 5 न च प्रतिनियतधर्मयोगित्वाद्रूपरसादिवत्समूहसन्तानावस्थाविशेषास्तत्त्वान्यत्वाभ्यामवचनीया न भवन्तीति वाच्यम् , तेषु पारमार्थिकनियतधर्मत्वासिद्धेः, तत्वतो नि:स्वभावत्वादघरपद्मवत् । प्रतिषेधद्वयेन प्रकृतार्थगतेयदि द्रव्याव्यतिरेकित्वं साध्यं तर्हि द्रव्यव्यतिरेकेण संख्यादेरनुपलम्भादाश्रयासिद्धो हेतुः, तदात्मनस्ततो भेदे तस्य निःस्वभावताप्रसक्तिश्चेति न द्रव्यव्यतिरेकित्वं कुतश्चित् प्रमाणादवसीयतेऽतो न तथा ते सद्व्यवहारविषयाः । बुद्धया10 दयस्तु प्रयत्नान्ता आत्माश्रितत्वेन तद्रुणा इष्टाः, ते चात्मनिषेधादेव निषिद्धाः, अमीषा मुत्पत्तिकारणत्वेनात्मन आश्रयत्वे हि तेषां सर्वदोत्पत्तिप्रसङ्गः, अनाधेयातिशयस्य सहकार्यपेक्षायोगात्, न वा नित्ये क्रमयोगपद्यव्याप्त कार्योत्पादन सामर्थ्यसम्भवः, नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधस्योक्तत्वात् । नापि स्थितिहेतुतयाऽऽश्रयत्वमात्मनः, स्थिते स्थातुरम्यतिरिच्यमानरूपत्वात् , सद्धेतुत्वे स्थातृहेतुत्वमेवोक्तं स्यात् तच्चानन्तरमेव निषिद्धम् । 15 न य परिनिष्ठितात्मरूपत्वात् स्थातुः कश्चिद्धेतुः सम्भवी, तत्र तस्याकिश्चित्करत्वात् । व्यति. रेकेऽपि स्थितेः स्थातुस्तेन न किञ्चित्कृतमर्थान्तरभूतायाः स्थितेः करणात, ततश्चाकिञ्चिस्करः कथं तस्याश्रयो भवेत् । नापि तत्सम्बन्धिन्याः स्थिते: करणात्तस्यायमुपकारको युक्तः, सत्सम्बन्धित्वासिद्धेः । न च तस्य स्थिति प्रति हेतुत्वमपि युक्तं नित्यस्य कचिदपि सामर्थ्या नुपपत्तेः, किश्च स्थाप्यमानो बुद्ध्यादिर्यदि स्वयमस्थितिस्वभावः कथं परेण स्थापयितुं शक्यः, 20 तत्स्वभावहानिप्रसङ्गात् , अथ स्थितिस्वभावः तथापि स्थापकोऽकिञ्चित्कर एव, स्वयमेव तत्स्वभावतया तस्य स्थितिसिद्धेः, किञ्च ये मूर्तास्तेषामधोगमनप्रतिबन्धकत्वेन भवेदाश्रय. कल्पना, बुद्ध्यादेस्त्वमूर्ततया नाधोगमनमस्तीति किं कुर्वाण आत्मादिस्तेषामाश्रयो भवेत् । अपि च नोत्पन्नानां बुद्ध्यादीनां कश्चिदाश्रयः, सतां निराशंसतयाऽऽश्रितत्वानुपपत्तेः, नाप्य नुत्पन्नानां निरूपाख्यतया तेषां तत्त्वायोगात् । किश्च बुद्धिरुपलब्धिर्ज्ञानमित्यनान्तर25 मिति[ न्यायद० १-१-१५ ] वचनाद निरूपता परैरभ्युपगता, न च तस्याः स्व संविदितत्वमभ्युपगतम् , बुद्ध्यन्तरग्राह्यताभ्युपगमात् । न च तथाभूतायास्तस्याः कर्मादिवद्वद्धित्वं युक्तम् । सुखदुःखेच्छाद्वेषप्रयत्नानामज्ञानरूपत्वे नात्मविशेषगुणताऽभ्युपगन्तुं युक्ता रूपादिवत् , ज्ञानरूपत्वे बुद्धे देनाभिधानमसङ्गतमेव, कश्चिद्विशेषमुपादाय ज्ञानात्मकाना. मपि ततो भेदेनाभिधानेऽभिमानादीनामपि भेदेनाभिधानं कार्यमिति | गरुत्वं प्रथिव्यदक. "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy