SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सोपानम् । कणादोक्तशेयनिरसभम् । तस्माञ्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते, चैत्रः कुण्डलीत्यनेनापि संयोगस्यैवाप्रतीतस्य विधिरिति वास्तवः संयोगादिरस्त्येव यद्वशाद्विधाननिषेधप्रवृत्तिः, तथा संयोगाभावे बीजादयः सर्वदेवाविशिष्टत्वात्स्वकार्यमङ्कुरादिकं विदध्युः, न चैवम् , सर्वदा तेषां कार्यानारम्भात् , अतो बीजादयः स्वकार्यकरणे कारणान्तरसव्यपेक्षाः, मृत्पिण्डदण्डचक्रसूत्रादय इव घटादिकरणे, योऽसावपेक्ष्यः स संयोग इति तदप्यसङ्गतम् , यथाहि चैत्रकुण्डलयोविशिष्टावस्थाप्राप्तौ 5 संयोगः प्रादुर्भवति न सर्वदा तथा चैत्रः कुण्डलीति मतिरपि तदवस्थाविशेषनिबन्धना कदाचि. देव भविष्यति न सर्वदा तत्किमर्थान्तरभूतसंयोगकल्पनया, उपलभ्यस्वभावाया उक्तविशिष्टावस्थायाश्चान्यत्रानुपलम्भतः प्रतिषेधोऽप्युपपद्यत इति संयोगिपदार्थभिन्नसंयोगाप्रतीत्या न ततो विधिः प्रतिषेधो वा सम्भवति, सर्वभावानां प्रतिक्षणविशरारुतया च विशिष्टावस्थाप्राप्तानां बीजादीनामङ्कुरादिजनकतया संयोगाभावे बीजादीनामविशिष्टत्वमसिद्धम् , तथा 10 बीजादीनां स्वकार्यजनने सापेक्षत्व साधने सिद्धसाध्यता, अव्यवधानाद्यवस्थान्तरसापेक्षाणां बीजादीनामङ्कुरादिस्वकार्य निर्वर्तनस्यास्माभिरभ्युपगमात् , संयोगाख्यपदार्थान्तरसापेक्षत्वसाधने त्वनन्वयित्वं हेतोः । न चावस्थासापेक्षा एवं बीजादयः स्वकार्यनिर्वर्तकाः न तु संयोगापेक्षा इति कुतः सिद्धं येन सापेक्षत्वमात्रसाधने सिद्धसाध्यता भवेदिति वाच्यम् , संयोगमात्रापेक्षायां प्रथमोपनिपातत एव क्षित्यादिभ्योऽङ्कुरादिकार्योदयप्रसङ्गात्, 15 पश्चाद्वदविकलकारणत्वात् , पश्चाद्वा न स्यात् , पूर्ववद्विकलकारणत्वात् , न वाऽनुपकारिणि संयोगे बीजादेरपेक्षा युक्ता, अतिप्रसङ्गात्तस्मान्न संयोगविभागगुणद्वय सद्भावः । इदं परमिदमपरमिति ज्येष्ठकनिष्ठयोदूरासन्नैकदिक्कत्रस्तुनोर्यतोऽभिधानप्रत्ययौ भवतस्तद्यथाक्रमं कालिक परत्वमपरत्वं दैशिकं परत्वमपरत्वञ्च सिद्धम, स च प्रत्ययो ज्येष्ठा दिवस्त्वतिरिक्तनिबन्धनः विलक्षणप्रत्ययत्वात् , ज्येष्ठकनिष्ठयोः कालकृतं परत्वमपरत्वञ्च, एकस्यां दिशि स्थितयोस्तद्दि- 20 कृतम् , एकस्यां दिशि काले च स्थितयोस्तत्प्रत्ययोत्पत्तः, न तावदयं कालदिङ्मात्रनिबन्धन इति मतं तदचारु, साध्यविपक्षे हेतोवृत्तेरनैकान्तिकत्वात् , असत्यपि परत्वापरत्वलक्षणे गुणे नीलादौ क्रमेणोत्पादात् क्रमेण च व्यवस्थानात् , कालोपाधेर्दिगुपाधेश्च परं नीलमपरश्चेति प्रत्ययस्योत्पत्तिदर्शनात् , तद्वत् पटादावपि भविष्यतीत्यर्थान्तरनिमित्तत्वमात्रसाधनेऽनैकान्तिकता हेतोः, तस्य विपक्षवृत्तित्वात् , नित्यभूतदिक्कालनिमित्तकगुणविशेषनिमित्ततासाधने च हेतो- 25 रनन्वयित्वम् , परापरप्रत्ययः अर्थमात्रकृतक्रमोत्पादयवस्थानिबन्धनः परापरप्रत्ययत्वात् , रूपादिषु परापरप्रत्ययवदित्यनुमानबाधिता च सा प्रतिज्ञा, रूपादिषु परापरप्रत्ययस्य अस्खलद्वृत्तित्वान्नौपचारिकत्वम् । नापि दिकालयोर्भवतः प्रदेशाः सन्ति यत्संयोगादपेक्षा ३८ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy