________________
सम्म तितरवसोपाने
[ द्वात्रिंशम्
भावप्रसङ्गश्च विपर्यये बाधकं प्रमाणम्, तस्मान्न पृथक्त्वं गुणः । अप्राप्तिपूर्विका प्राप्तिः संयोगः, प्राप्तिपूर्विका चाप्राप्तिर्विभागः । एतौ द्रव्येषु यथाक्रमं संयुक्त विभक्तप्रत्यय हेतू अन्यतरोभयकर्मजौ संयोगविभागजौ च यथाक्रमम् | द्रव्यविशेषणतया संयोगस्याध्यक्षत: प्रतीयमानत्वात्सद्व्यवहारविषयता, कश्चित् केनचित् संयुक्ते द्रव्ये आहरेत्युक्तो हि ययोरेव 5 द्रव्ययोः संयोगमुपलभ्यते ते एवाहरति न द्रव्यमात्रम्, अन्यथा हि यत्किचिदाहरेत्, एतद्विपर्ययेण विभागसाधनेऽपि योज्यम्, तन्न युक्तम्, संयुक्तपदार्थादर्थान्तरभूतसंयोगस्य कदाचित् प्रतिपत्तुर्दर्शनपथानवतारात्, न हि संयोगदर्शनेन विशिष्टं द्रव्यमाहरति, किन्तु प्राग्भाविनीये सान्तरजातावस्थे ततो विशिष्टे निरन्तरावस्थे ये समुत्पन्ने वस्तुनी ते एव सं
२९६ :
युक्तप्रत्ययविषये तच्छब्दवाच्ये च, अवस्थाविशेषे संयुक्तशब्दस्य सङ्केतितत्वात्, तथाविधे 10 वस्तुनी पश्यन्नाहरति, नान्ये, न हि शब्देनाबोधितेऽर्थे शब्दात् प्रवर्त्तते प्रेक्षावान्। संयोगविभागयोर्द्रव्यार्थान्तरभूतयोरभावेऽपि वस्त्वन्तरमेव तथा तथोत्पद्यमानं सान्तरमिदं वस्तु निरन्तरमिति च बुद्धिभेद निबन्धनं भविष्यति न संयोगविभागयोस्तथाविधप्रत्ययविशेषात् सिद्धिः । यद्धि विच्छिन्नमुत्पन्नं वस्तु तत्सान्तरबुद्धेर्निमित्तं हिमवद्विन्ध्यादिवत् । अविच्छिन्नोत्प त्तिका निरन्तर बुद्धिविषयः, निरन्तरोपरचितदेवदत्तयज्ञदत्तगृहवत्, न हि गृहयोः परे15 णापि संयोगगुणाश्रयत्वमभ्युपगम्यते, तयोः संयोगात्मकत्वेन गुणत्वात् नापि हिम द्विन्ध्ययोर्विभागाश्रयत्वम्, प्राप्तपूर्व काप्राप्तेस्तलक्षणस्याभावात् । मिथ्याबुद्धिर्या दूरे धवखदिरादौ सान्तरे निरन्तरावसायिरूपा पर्वतशिखरास तबलाकादौ सान्तरत्वाध्यवसायिनी तथाविधा सर्वाऽपि न साधर्म्यग्रहणादुत्पद्यते, येन मुख्यपदार्थसिद्धिः स्यात्, तदन्तरेणापि इन्द्रियवैगुण्य मात्रा देवोत्पत्त्युपलब्धेः, अन्यगतचेतसः तैमिरिकस्य द्विचन्द्राद्यविकल्पबुद्धि20 वत् । विच्छिन्नविच्छिन्नरूपतयोपजातस्य वस्तुनः प्रधानभूतस्य तद्बुद्धिनिबन्धनस्य सद्भावाच न तदर्थान्तरविलक्षण संयोगविभागसिद्धिः । यदपि कुण्डली देवदत्त इति मतिरियमुपजायमाना किं निबंधना, न च पुरुषकुण्डलभावमात्रभाविनी, सर्वदा देवदत्तकुण्डलयोस्तस्वा उदयप्रसङ्गात्, किन यदेव केनचित् कचिदुपलब्धसत्त्वं तस्यैवान्यत्र विधिप्रतिषेधमुखेन लोकव्यवहारप्रवृत्तिर्दृष्टा, यदि तु संयोगो न स्यात् कथं विभागेनास्य चैत्रोऽकुण्डलः कुण्डली वेत्येवं प्रतिषेधो विधिश्च भवेत्, चैत्रोऽकुण्डलीत्यनेन हि न कुण्डलं प्रतिषिध्यते, तस्य देशकालभेदेन सवाध्यासितमूर्तेः प्रतिषेद्धुमशक्यत्वात् नापि चैत्रस्य, अत एव
25
१ पक्षिशिखरयोः संयोगो विभागश्चान्यतरकर्मजः मेषद्वयसन्निपातः पृथग्भावक्षोभयकर्मजः, हस्तपुस्तकयोः संयोगाद्विभागाद्वा शरीरपुस्तकयोः संयोगो विभागो वा संयोगजसंयोगो विभागजविभागो वा उच्यते ॥
"Aho Shrutgyanam"