SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ सोपान कणादोक्तशेयनिरसनम् । रसिद्धः, तथाव्यवस्थितरूपादिपदार्थव्यतिरेकेण महदादिपरिमाणस्याध्यक्षप्रत्ययग्राह्यत्वेनासंवेदनात् , अथाणुमहदादीत्येवं या विकल्पिका बुद्धिः सा रूपादिप्रत्ययविलक्षणबुद्धिपदेनाभिप्रेतेति चेन्न, हेतोर्विपक्षे बाधकप्रमाणाभावेनानैकान्तिकत्वात् , न ह्यस्याः परमार्थतः किश्चिदपि ग्राह्यमस्ति कल्पनाबुद्धित्वात् , केवलं तेष्वेव रूपादिषु एकदिङ्मुखादिप्रवृत्तेषु दृष्टेषु तद्विलक्षणरूपादिभेदप्रतिपादनाय कृतसमयानुरोधान्महादित्यध्यवस्यन्ती बुद्धि यते 5 नातो वस्तुव्यवस्था, न च रूपादिव्यतिरिक्तं ग्राह्यमप्यस्तीत्यसिद्धतापि हेतोः, प्रतिज्ञायाश्च प्रत्यक्षबाधा, प्रत्यक्षत्वेनेष्टस्य महदादे रूपादिव्यतिरेकेणानुपलब्धेः । ततो दृष्टे स्पृष्टे वा रूपादिके एकदिङ्मुखप्रवृत्ते भूयसि अतद्रूपपरावृत्ते दीर्घमिति व्यवहारः प्रवर्तते परिमाणाभावेऽपि, तदपेक्षया चाल्पीयसि रूपादौ समुत्पन्ने ह्रस्वमिति, एवं महदादावपि योज्यम् , एकानेकविकल्पाभ्यां रूपादिवन् महदायनुपपत्तेश्चाभावः । अविद्यमानेऽपि महादादौ भवत्प्रक- 10 ल्पिते प्रासादमालादिषु महदादिप्रत्ययप्रादुर्भूतिरनुभूयते । न च यत्रैव प्रासादादिषु मालाख्यो गुणः समवेतस्तत्र महत्त्वादिकमपीति एकार्थसमवायबलान्महतीत्येवं तन्मालादि व्य. पदिश्यत इति वाच्यम् , प्रासादस्याययवित्वेनानभ्युपगमात् , विजातीयानां द्रव्यानारम्भकत्वात्, किं तु स संयोगात्मको गुणः, स च न परिमाणवान् , निर्गुणत्वाद्गुणानाम् , ततो मालाख्यस्य गुणस्य प्रासादादिश्वभावात् प्रासादमाले इत्ययमेव प्रत्ययस्तावदयुक्तो दूरतो 10 महती ह्रस्वा वा सेति प्रत्ययव्यपदेशः, मालायाः संख्यात्वेन प्रासादादीनां संयोगत्वेन महत्त्वादेश्व परिमाणत्वेन परैरभ्युपगमात् , तस्मान्न परिमाणं रूपादिषु पृथग् गुण इति स्थितम् । इदमस्मात् पृथगिति यद्वशात्संयुक्तमपि द्रव्यमपोद्धियते तदपोद्धारकारणं पृथक्त्वं नाम गुणो घटादिभ्योऽर्थान्तरं तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वादिति काणादाः, तन्न रूपादिभ्योविवेकेनार्थान्तरभूतस्य तस्य प्रत्यक्षबुद्धावप्रतिभासनाद्धेतोरसिद्धेः, अत एव च तस्योपलब्धि- 20 लक्षणप्राप्तत्वेनाभिमतस्यानुपलम्भादसत्त्वमेव, न च पृथगिति विकल्पबुद्धिबलेन तस्य सिद्धिः, तत्प्रत्ययस्य सजातीयविजातीयव्यावृत्तरूपाद्यनुभवनिबन्धनत्वात् , व्यावृत्तता च भावानां स्वस्वभावव्यवस्थितेः, अन्यथा स्वतोऽव्यावृत्तस्वरूपाणां पृथक्त्वादिवशादपि पृथप्रपत्वासिद्धेः। किश्च सुखदुःखादिगुणेषु यथा परस्परव्यावृत्तात्मतया पृथगिति प्रत्ययविषयता पृथत्त्वगुणाभावेऽपि तथा घटादिष्वपि भविष्यतीति हेतोरनैकान्तिकत्वम् । न चापि तेषु 25 भाक्तोऽयं प्रत्ययः, मुख्य प्रत्ययाविशिष्टत्वात् । पृथगित्यपोद्धारव्यवहारस्य स्वरूपविभिन्नपदार्थानिबन्धनत्वात् परोपन्यस्तानुमाने प्रतिज्ञा या अनुमानबाधा तथा च प्रयोगो ये परस्परव्यावृत्तात्मानस्ते न स्वव्यतिरिक्तपृथक्तवसमाश्रयाः, यथा सुखादयः, परस्परव्यावृत्तात्मा. नश्च घटाढ्य इति स्वभावहेतुः, एकस्यानेकवृत्त्यसंभवः सम्बन्धाभावः सुखादिषु तव्यवहा "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy