________________
[ द्वात्रिंशम्
स्वयं चला
स्थितिरुच्यते, न तु प्रतिलब्धात्मसत्ताकानामुत्तरकालमात्मरूपसन्धानलक्षणा, त्मन उत्तरकालावस्थानासम्भवात्, अवस्थाने वा कदाचिदप्यनिवृत्तिप्रसङ्गः, पूर्ववत् पश्चादध्यविशिष्टत्वात्, अतत्स्वभावप्रसङ्गाच्च । न च क्षणस्थितिप्रबन्धेऽपि स्थापकस्य सामर्थ्यसिद्धिः, पूर्वपूर्व कारणसामर्थ्य कृतस्योत्तरोत्तर कार्यप्रसवस्य संस्कारमन्तरेणापि सिद्धेः । अक्षणिकस्य त्वन्यथात्वासम्भवात्स्वत एव स्थितिरिति न तत्रापि स्थापकोपयोगः । कर्मफलदायी आत्मआत्मनः संयोगः स्वकार्यनाइयो धर्माधर्मरूपतया भेदवानदृष्टाख्यो गुणः वैशेषिकैः परोक्षलक्षण उपवर्णितः, सोऽपि तत्समवायिकारणस्यात्मनो मनसः तयोः संयोगस्य च निमित्तासमवायिकारणत्वेनाभ्युपगतस्य निषिद्धत्वात्कारणाभावादेवासन् सिद्धः । शब्दस्वाकाशगुणत्वेनाभिमतः सोऽपि पूर्वं निषिद्ध इति न चतुर्विंशतिरपि गुणाः प्रमाणोपपत्तिकाः । 10 उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनलक्षणानि पञ्च कर्माणि, ऊर्ध्वाधः प्रदेशाभ्यां संयोगवि भागकारणं कर्म उत्क्षेपणम् । एतद्विपरीतसंयोगविभागकारणश्च कर्मापक्षेपणम्, ऋजुद्रव्यस्य कुटिलत्वकारणं कर्माssकुचनम्, एतद्विपर्ययकारणं कर्म प्रसारणम्, अनियत दिग्देशैर्यत्संयोगविभागकारणं कर्म तद्गमनम्, पञ्चविधस्याप्यस्य मूर्त्तिमद्रव्यसंयोगविभागलक्षणकार्योपलम्भादनुमानतः इन्द्रियव्यापारेण गच्छतीत्यादिप्रतीत्युत्पत्तेरध्यक्षतश्च प्रसिद्धिरिति तन्न 15 युक्तम्, संयोगविभागलक्षणतत्कार्यस्य तयोर्निषिद्धत्वेनासिद्धत्वात्, नैरन्तर्योत्पादसान्तरतोत्पत्तिमात्र लक्षण संयोगविभागौ तत्कार्यतया यदि हेतुत्वेनेष्टौ तदानैकान्तिकता, तयोस्तथाविधकर्मणा काप्यन्वयासिद्धेः, साध्यविपर्ययेण हेतोर्व्याप्तिर्विरुद्धतापि, कारणमात्रास्तित्वे साध्ये वायादीनां तथाविधसंयोगविभागका रणत्वेनेष्टतया सिद्धसाध्यता च, कारणविशेषास्तित्वे च साध्येऽनुमानबाधा प्रतिज्ञायाः, तथाहि पदार्थानां क्रिया भवन्ती क्षणिकानां भवेदक्षणि 20 कानां वा, नाद्यः, तस्य जन्मदेशे एव च्युतेर्देशान्तरप्राप्त्यभावात् । यो यत्र देशे ध्वंसते न तदन्यदेशमाक्रामति, यथा प्रदीपादिः, जन्मदेश एव च ध्वंसन्ते सर्वभावा इति व्यापकविरुद्धोपलब्धिः, न चास्य हेतोरसिद्धता, अन्यस्य क्षणिकत्वायोगात् । न च भावानां क्षणिकत्वेऽप्युत्पत्तिकाल एव क्रिया भविष्यतीति वाक्यम्, क्षणमात्रभाविन एकस्य कियाकालविलम्बासम्भवात् पाश्चात्य देशविश्लेषे पुरोवर्त्तिदेश श्लेषे च सति हि गन्ता भावो भवति नाकाशादिः, 25 क्षणिकत्वाच्च भावानां प्राक्तनदेशपरिहारेण न तेऽन्यदेशमाक्रमेयुः, सत्ताकाल एवं ध्वंसवशीकृत
: ३०० :
5
सम्मतितत्त्वसोपाने
१ शरीरावयवे तत्सम्बद्धे वा मूर्तिमध्ये ऊर्ध्वदिग्भाविभिराकाशप्रदेशैर्यः संयोगस्तद्धेतुः अधोदिगवच्छेदेनाकाशप्रदेशैय विभागस्तत्कारणच कर्म उत्प्रेषणम् । अङ्गुल्याद्यग्रावयवानां तत्संयुक्ताकाशप्रदेश विभागानन्तरं मूलप्रदेशैः संयोगे सति येनामुल्यादिः कुटिलो भवति तत्कर्माकुञ्चनमित्यर्थः ॥ २ अत्र प्रतिवेध्यं तदन्यदेशाक्रमणं तद्व्यापकः तत्र देशे वंसाभावः तद्विरुद्धस्य तत्र देशे सम्योपलब्धिर्थ्यापकविरुद्धोपलब्धिः ॥
" Aho Shrutgyanam"