SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सोपानम् । कणादोक्तशेयनिरसनम् । त्वात् । नाप्यक्षणिकस्यासौ युक्ता, तस्यैकरूपत्वेन सर्वदाऽविशिष्टत्वात् , न च प्रकृत्यैव तस्य गन्तृत्वात् क्रियावत्त्वम् , तथा सति सर्वदैकरूपतया कदाचिदपि निश्चलता न स्यान् । यद्यगन्तृरूपताप्येषामङ्गीक्रियते ताकाशवदेकरूपत्वादगन्तृत्वमेव स्यात् , एवञ्च गत्यवस्थायामप्यचलत्वप्रसङ्गः अपरित्यक्तागतिरूपत्वात् । उभयरूपत्वन्तु गन्तृत्वागन्तृत्वलक्षणविरुद्धधमाध्यासादेकत्वव्याहतिप्रसङ्गेन क्षणिकतापत्त्या न युक्तम् , एवं प्रत्यक्षबाधितमपि कर्म, 5 यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत्प्रेक्षावता सदिति व्यवहर्त्तव्यम् , यथा कचित् प्रदेशविशेषेऽनुपलभ्यमानो घटः, नोपलभ्यते च विशिष्टरूपादिव्यतिरेकेण कर्मेति स्वभावानुपलब्धिः, न हि तथादेशान्तरावष्टम्भोत्पादितरूपादिव्यतिरेकेणेन्द्रियज्ञाने कर्म प्रतिभा. समानमुपलक्ष्यते, या चैवमुत्क्षेपणमवक्षेपणमिति जल्पानुषङ्गिणी बुद्धिरुपजायते सा साभि. जल्पत्वान्न प्रत्यक्षम् , नाप्येष! कर्मपदार्थानुभवभाविनी, रूपादेरेव तथा तथोत्पद्यमानस्य 10 दर्शनात , गतिव्यवहारस्तु लोके अपरापरनैरन्तर्योत्पत्तिमत्पदार्थोपलब्धेः स एवायं गच्छतीतिभ्रान्त्युत्पत्तेः प्रदीपादौ गमनव्यवहारवदुपपद्यते, अतो न व्यवहारमात्रादन्यथासिद्धाव्यव्यतिरिक्तकर्माभ्युपगमः श्रेयानिति स्थितम् । परापरभेद भिन्नं सामान्यमपि द्रव्यगुणकर्मास्मकपदार्थत्रयाश्रितत्वाभ्युपगमात्तन्निराकरणादेवापास्तम् , आश्रयाभावेऽपि सत्त्वेऽनाश्रितत्वप्रसङ्गात् , तथापि सम्प्रति विशेषतः प्रतिषेधमार्गः प्रदर्यते, तत्र परं सामान्यं सत्ताख्यं 15 सर्वेष्वनुवृत्तिप्रत्ययकारणत्वात्सामान्यमेव, द्रव्यत्वादिलक्षणमपरन्तु स्वाश्रयेष्वनुवृत्तिप्रत्य यहेतुत्वात्सामान्यम् , स्वाश्रयस्य च विजातीयेभ्यो व्यावृत्तिप्रत्ययहेतुतया विशेषणात्सामान्यमपि सद्विशेषसंज्ञां लभते, सामान्य श्चाक्षान्वयव्यतिरेकानुविधाय्यनुगताकारप्रत्ययग्रायत्वादध्यक्षतः प्रसिद्धम् , तथा व्यावृत्तेषु खण्डमुण्डशाबलेयादिषु अनुगताकारप्रत्ययस्तव्य. तिरिक्तानुगताकारनिमित्तनिबन्धनः, व्यावृत्तेष्वनुगताकारप्रत्ययत्वात् , यथा चर्मचीरकम्ब- 20 लेषु नीलप्रत्ययः, तथाचायं शाबलेयादिषु गौ¥रिति प्रत्यय इत्यनुमानेनापि तत्सिद्धम् । न चेयमनुगतमतिर्निनिबन्धना, कादाचित्कत्वात् , नापि शाबलेयादिपिण्डनिबन्धना, तेषां व्यावृत्तरूपत्वात् , पिण्डमात्रनिबन्धनत्वे च कर्कादावपि गौ¥रिति प्रत्ययोत्पादप्रसङ्गादविशेपात् । न च वाहदोहाद्यर्थक्रियानिबन्धनेष्वेव तथा प्रत्यय इति वाच्यम् , वत्सादौ तद्बुद्ध्युदयात् , महिष्यादावनुदयात , अर्थक्रियाया अपि प्रतिव्यक्ति भेदेनानुगतमतिनिमित्तत्वास- 25 म्भवाच्चेति सामान्यनिमित्तता सिद्धिरिति परस्य मतं तदयुक्तम् , अक्षजे प्रत्यये शाबलेयादिव्यतिरेकेणान्यानुगताकारस्य सामान्यस्याप्रतिभासनात् , न हि शाबलेयादिषु सूत्रकण्ठे गुण इवापरं सामान्य केनचिल्लक्ष्यते, गौगौरिति विकल्पज्ञानेनापि त एव समानाकाराः १ सूत्रकंठः खन्नरीटे द्विजन्मनि कपोतके इति हैमः ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy