________________
: ३०२ :
सम्मतितत्त्व सोपाने
[ द्वात्रिंशम्
शाबलेयादयो बहिर्व्यवस्थिता अवसीयन्ते, अन्तश्च शब्दोल्लेखः, न पुनस्तद्भिन्नमपरं गोत्वम्, तस्मान्न निर्विकल्पकेन सविकल्पकेन वाऽध्यक्षेण सामान्यं व्यवस्थापयितुं शक्यम्, अनुमानतो निमित्ततामात्रसिद्धावपि तत्किं सामान्यमन्यद्वेति न निश्चयो भवताम् । न च पिण्डानां विशेषप्रत्ययजननेऽन्वयव्यतिरेकाभ्यां सामर्थ्यं सिद्धमितीहापि सामान्यस्यानुगतमतेः 3 सामर्थ्यं निश्चीयत इति वाच्यम्, सामान्यस्य कचिदपि सामर्थ्यानवधारणात्, पिण्डसद्वावे ह्यनुगताकारं ज्ञानमुपलभ्यते तदभावे नेति वरमध्यक्ष प्रत्ययावसेयानां तेषामेव तन्निमित्तता कल्पनीया । यदुक्तं पिण्डानामविशिष्टत्वात्तत्प्रत्ययानिमित्तत्वं तदसङ्गतम्, यथाहि पिण्डादिरूपतयाऽविशेषेऽपि तन्तूनामेव पटजननहेतुत्वं न कपालादीनां तथा शाबलेयादीनामेव गौगौरिति ज्ञानोत्पादने सामर्थ्य न कर्कादीनाम्, किञ्च सामान्यस्य यदि मूर्त्तत्व10 मभ्युपगम्यते तर्हि घटादिवत्सामान्यं न स्यात्, अथामूर्त्तत्वं न रूपादिवत्सामान्यं स्यात् ।
3
तथा यद्यनंशं तदा परमाणुवत्सामान्यं न स्यात्, सांशत्वेऽपि न घटवत्सामान्यम् । अपि च पिण्डेभ्यः सामान्यस्य भेदे घटादिभ्यः पट इव भेदेनैवोपलभ्येत, सम्बन्धाभावाच्च गोर्गोत्वमिति व्यपदेशानुपपत्तिः, व्यक्तिभ्योऽभेदे चान्यत्राननुयायित्वान्न पिण्डस्वरूपवत् सामान्यरूपता, नापि भिन्नप्रतिभासविषयत्वाद्व्यक्तिभ्यस्तस्य भेदः, बुद्धिभेदस्य व्यक्तिनिमि15 तत्वस्योक्तत्वात् । किञ्च यदि सामान्यबुद्धिर्व्यक्तिभिन्नसामान्यनिमित्ता तदा व्यक्तयग्रहणेऽपि भवेत्, गोपिण्डाग्रहणेऽश्वबुद्धिवत् न च कदाचित्तथा भवति, ततो न व्यक्तिव्यतिरिक्तसामान्यसद्भावः । न चाधारप्रतिपत्तिमन्तरेणाधेयप्रतिपत्तेरभावात्तद्रह एव तद्ग्रहो न तस्याभावात्तद्रहः, अन्यथा कुण्डाद्याधार प्रतिपत्तिमन्तरेण बदराधेयस्याप्रतिपत्तेस्तस्याप्यभाव एव स्यादिति वाच्यम्, बदरादेः प्रतिनियताधारमन्तरेणापि स्वरूपेणोपलब्धेः, गोत्वादेस्तु प्रति20 नियतपिण्डोपलंभमन्तरेण स्वरूपेण कदाचनाप्यनुपलब्धेरभाव एव । यदि तस्यानाधारत्वं तदा न सामान्यं शशशृङ्गवत्, अथ तदाधारवत्, तदा कात्रन्यैकदेशाभ्यां वृत्त्यनुपपत्तिरवयविवत् । अपि च अनुगताकारं ज्ञानं सामान्यमन्तरेणासम्भवीत्युच्यते परैः, तत्र किं यत्रानुगतं ज्ञानं तत्र सामान्यसम्भवः, उत यत्र सामान्यसम्भवस्तत्रानुगतं ज्ञानं प्रतिपाद्यते, नाद्यः, गोत्वादिसामान्येषु बहुषु सामान्यं सामान्यमिति प्रत्ययोत्पत्तेरपि अपरसामान्याभावात्, एवं प्रागभावाद्यभावेष्यपि, न च सामान्यादावनुगतमतिर्गौणभूता, अस्खलद्वृत्तित्वेन तदसिद्धेः । न द्वितीयः, पाचकादिषु तदभावेऽप्यनुगतप्रत्ययोत्पत्तेः । न च पचन क्रियानिमित्तस्तत्प्रत्ययः, तस्याः प्रतिव्यक्ति भिन्नत्वात्, तत्समान्यनिमित्तत्वे प्रागेव तत्प्रत्यय प्रसूतिर्भवेत्, तस्य नित्यवात् न चाभिव्यञ्जक क्रियाभावात् प्रागनभिव्यक्तं तदिति वाच्यम्, विनस्याभिव्यञ्जकस्या
25
१ पाचकत्वसामान्यनिमित्तत्व इत्यर्थः ॥
"Aho Shrutgyanam"