SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ मोपानम् कणादोक्तशेयनिरसनम् । भिव्यञ्जकत्वायोगेन तक्रियाविनाशे पश्चात्तद्वद्धिन स्यात् । न चैकदाऽभिव्यक्तं सर्वदेवाभिव्यक्तमिति पश्चात्तद्वद्धिर्भविष्यतीति वाच्यम् , प्रागपि सामान्यस्याभिव्यक्तस्य सत्त्वेन तन्मतिप्रसङ्गात् । न च प्रागनभिव्यक्तः, अभिव्यक्तान भिव्यक्तभेदतोऽनेकत्वापत्तेः । अथ व्यक्ति. प्रतिभाससमय एव सामान्यप्रतिभास इति न ततः प्राक् पश्चाद्वाऽभिव्यक्तकरूपस्यापि तस्य ग्रहणमिति चेत्तर्हि व्यक्तिप्रतिभासकालेऽपरप्रतिभासस्यासंवेदनादनुगतप्रतिभासस्य तदा व्य- 5 क्तिनिवन्धनत्वात्सामान्यस्याभाव एवेति प्राप्तम् । किञ्चोत्पद्यमानेन पिण्डेन सह सामान्यं किमन्यत आगत्य सम्बध्यते, उत्त पिण्डेन सहोत्पादात् किं वा पिण्डोत्पत्तेः प्रागेव तद्देशावस्थानात् , आधे प्राक्तनपिण्डपरित्यागेनागमने गोत्वपरित्यक्तस्य तस्यागोरूपताप्रसक्तिः, अपरित्यागेन चेत् तापरित्यक्तप्राक्तनपिण्डस्य निरंशस्य रूपादेरिव गमनासम्भवः, न ह्यपरित्यक्तप्राक्तनाधारणामाधारान्तर सङ्क्रान्तिः क्वचिदप्युपलब्धा । न च प्राक्तनाधारापरित्यागेऽपि 10 सर्पादेरिवाधारान्तरसातिस्सामान्यस्य भविष्यतीति वक्तव्यम् , सामान्यस्यामूर्तत्वाभ्युपगमात् । न च सर्पवत्पूर्वाधारापरित्यागेनाधारान्तरक्रोडीकरणे सामान्यरूपतया सदेशस्य घटवत्सामान्यरूपतानुपपत्तेः, न द्वितीयः, उत्पत्तिमत्त्वेन तस्यानित्यताप्रसक्तेः, अनित्यस्य च ज्वालादिवत्सामान्यरूपत्वायोगात । न तृतीयः, निराधारस्य सामान्यस्य तत्रावस्थानासम्भवात्, सम्भवे वाऽऽकाशवत्सामान्यरूपताविरहात् । न च गमनादिधर्मविकलस्यापि 15 सामान्यस्योत्पद्यमान पिण्डसम्बन्धो गौगौरित्यनुगतप्रत्ययात् प्रतीयत एवेति प्रमाणप्रतिपन्ने वस्तुनि विरोधााद्भावनमसङ्गतमेवेति वाच्यम् , गौॉरित्यनुगताकारप्रत्ययस्य प्रागभावादिष्वभावप्रत्ययवसामान्यसम्बन्धमन्तरेणापि सिद्धत्वात् । यदि च पिण्डभिन्नानुस्यूसैकसामान्याभ्युपगमस्तदा एकपिण्डोपलम्भे तस्याविभक्तत्वात् पिण्डान्तरालेऽप्युपलब्धिः स्यात् , न हि तस्यैकत्राभिव्यक्तस्यान्यत्रानभिव्यक्तरूपता, विरुद्धधर्माध्यासतो भेदप्रस- 20 ङ्गात् । न चान्तराले संयुक्तसमवायसम्बन्धस्योपलम्भहेतोरभाव इति वक्तव्यम , तत्र तत्सद्भावे प्रमाणाभावात् , अन्तराले हि सामान्य सद्भावस्य प्रमाणतः सिद्धौ तदग्रहण निमित्तमुपपद्येतापि न च तत्र तत्सद्भावः सिद्धः । अपि च अक्षणिकैकव्यापकस्वभावत्वे सामान्यस्य येन स्वभावेनैकपिण्डवृत्तित्वं तस्य किं तेनैव स्वभावेन पिण्डान्तरवृत्तित्वं, उत स्वभावान्तरेण, न प्रथमः, सर्वपिण्डानामेकत्वप्रसङ्गात् , एकदेशकालस्वभावनियतपि- 25 ण्डवृत्त्यभिन्नसामान्यस्वभावकोडीकृतत्वात्सर्वपिण्डानाम् , प्रतिनियतदेशकालस्वभावैकपिण्ड. वत् । न द्वितीयः, अनेकस्वभाव सम्बन्धेन सामान्यस्यानेकत्वप्रसङ्गात् , न चैकस्याप्यनेक. १ पचनक्रियाविशिष्टपुरुषव्यक्तिप्रतिभाससमय इत्यर्थः ।। २ यदनेकखभावसम्बन्धि तदनेक दृष्टम् यथा घटपटादयः, अनेकखभावसम्बन्धि च भवद्भिः सामान्यमभ्युपगम्यतेऽतस्तेनाप्यनेकेन भाव्यमिति भावः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy