SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [ द्वात्रिंशम् वृत्तित्वं रूपादेरिव युक्तम् , अथ यथैकस्य रूपादेरेकवृत्तित्वं तथैवोपलम्भादभ्युपगम्यते तथैकस्य सामान्यस्यानेकवृत्तित्वमनेकत्रोपलम्भात् किं नाभ्युपगम्यते, अबाधितोपलम्भस्य भावरूपव्यवस्थानिबन्धनत्वादिति चेन्न, स्वरूपतोऽनेकवृत्तिव्यक्तिभिन्नैकसामान्यस्य कुत्र. चित् प्रत्ययेऽप्रतिभासनात् । न देशव्याप्तिः कालव्याप्तिर्वा कस्यचिद्भावस्य केनचित् प्रमा5 णेन प्रतिपत्तुं शक्येति त्वसकृदावेदितम् । किश्चानुगतप्रत्ययः पिण्डव्यतिरिक्तानुगतनिमित्तनि बन्धन इति प्रतिज्ञाऽनुमानबाधिता, साधयितुमिष्टस्य व्यक्तिभिन्नानुगतनिमित्तस्य तत्राप्रतिभासनात् , वर्णाकृत्यक्षराकारस्यैवार्थस्य तत्र प्रतिभासनाच्च तद्रूपविकलतया सामान्यस्य परैरभ्युपगमात् कथं तत्प्रतिभासे तस्य प्रतिभासः, अन्याकारस्य विज्ञानस्यान्यालम्बनत्वेऽ. तिप्रसङ्गात् । न च क्षणिकत्ववत प्रतिभासमानमपि सामान्य व्यक्तिभेदेन नोपलक्ष्यत 10 इति वक्तव्यम् , अनुपलक्षितस्य व्यक्तिध्वभिन्नधीध्वनिनिमित्तत्वायोगात्, न हि विशेष. णानुपलक्षणे विशेष्ये बुद्धिरुपजायते, दण्डानुपलक्षणे दण्डिबुद्धिवत् । किञ्चाविकल्पवि. ज्ञानवादिनः प्रतिभातानुपलक्षणं युज्येतापि, सविकल्पकाध्यक्षवादिनो गृहीतानुपलक्षणमयु. क्तम् , निश्चयानामुपलक्षणमन्तरेणापरग्रहणासम्भवात् , न हि निश्चयैरनिश्चितं गृहीतं नाम । किश्चानुगतप्रत्ययस्यान्यनिमित्तत्वसिद्धावपि तस्यानुगतनित्यनिमित्तत्वेन साधने त्वसिद्धि15 रेव स्यात् , तथाहि अनुगताभिधानप्रत्ययाः क्रमवत्कारणप्रभवाः, क्रमेणोपजायमानत्वात , प्रदीपज्वालाप्रभवक्रमभाविप्रत्ययव दिति विपर्ययसिद्धेः । यदि त्वक्रमसामान्यहेतुका एते अभविष्यन्न क्रमेणोत्पत्तिमासादयिष्यन् , अविकलकारणत्वात् , तथापि तद्धेतुकत्वे सर्व सर्वहेतुकं स्यादिति प्रतिनियत कार्यकारणभावव्यवस्थाविलोपनसक्तिः । न चानुगतनिमित्ताभावेs प्यस्य भावे प्रत्ययभेदकृता विषयभेदव्यवस्था न स्यादिति रूपादिप्रत्ययानामपि न स्ववि20 षयव्यवस्थापकत्वं भवेदिति वाच्यम् , अनुगतप्रत्ययस्याविष्टाभिलापत्वेन स्वलक्षणाविषयी. करणात्तद्व्यवस्थापकत्वायोगात् , यथासङ्केतं तत्तद्ध्यावृत्तिमादायकत्राप्यनेकविरुद्धधर्माध्यवसायिविकल्पप्रसूतेरविरोधात् । यदि चानुगतनिमित्तमन्तरेण नानुगतप्रत्ययो भवेत्तर्हि यदृच्छाजातेषु इच्छाविरचितरूपेषु भावेषु च कथं स भवेत् न हि तत्रापि सामान्यसद्भावः, व्यक्त्यभावे तदाश्रितस्य तस्याप्यभावात् । न च परेणापि केवलस्य सामान्यस्य ग्रहणमभ्यु25 पगम्यते, अभ्युपगमे वा सामान्यप्रत्ययस्य व्यक्त्यध्यवसायो न प्राप्नोति, व्यक्तस्तदानीम भावाद्वयक्तीनां सामान्य मिदमिति सम्बम्धश्च न स्यानिमित्ताभावात् । तथाहि सम्बन्धस्य निमित्तं भवतः सामान्यस्य किं तद्व्यङ्गत्वं भवेत् , तजन्यता वा तद्हणापेक्षग्रहणता वा, तत्र न तावद्वयक्तिभिर्व्यङ्गयत्वात्सामान्यं ताभिः सम्बद्धम् , परैरनुपकार्यस्य नित्यत्वात् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy