________________
सोपानम्
कणादोक्तायमिरसमम् ।। सामान्यस्याविशेषतो व्यङ्गयत्वानुपपत्तेः, यो हि यस्यानुपकार्यः स तस्य नाभिव्यङ्गयः, यथा हि मवान् विध्यस्य, अनुपकार्य च सामान्य व्यक्तिभिरित्यनुपकार्यस्यापि व्यङ्गयत्वे सर्वः सर्वस्य व्यङ्गयः स्यादित्यतिप्रसङ्गः । न द्वितीयः, तस्य नित्यत्वाभ्युपगमात् , केवलस्यापि ग्रहणाभ्यु. पगमाञ्च । नापि तृतीयः, परैरनाधेयातिशयस्य कचिदप्यपेक्षायोगात् , अतो यदि तत् स्वविषयज्ञानोत्पादनसमर्थ तदा सर्वदैव तज्जनयेत् , अथासमर्थं न कदाचिदपि जनयेत् , सामर्थ्यासा- 5 मर्थ्ययोस्तद्रूपयोः केनचिदन्यथा कर्तुमशक्यत्वात् , अन्यथा नित्यत्वं तस्य न स्यात् । अत एव तस्य व्यक्तिषु वृत्तिरप्यनुपपन्ना, तथाहि अस्य वृत्तिः किं स्थिति लक्षणा, उताभिव्यक्तिलक्षणा, स्थितिरपि कि स्वभावाप्रच्युतिः किं वाऽधोगतिप्रतिबन्धस्वरूपा, नाद्यः, सामान्यस्य नित्यतया स्वभावाप्रच्युतेः स्वतः सिद्धत्वात् , नापि द्वितीयः, अमूर्तसर्वगतत्वाभ्यां निष्क्रियतयाऽधोगमनासम्भवात् प्रतिबंधकवैयर्थ्यात् । न च स्वव्यक्तिषु समवाय एव स्थितिरभ्यु- 10 पगन्तव्या, तस्यैव विचार्यमाणत्वात् , अपृथसिद्धानामाश्रयाश्रयिभावलक्षणो हि सम्बन्धः समवाय उच्यते, तच्चाश्रितत्वं सामान्यस्य व्यक्तिप्रतिबद्धस्थितितया वा भवेत् , तदभिव्यनयतया वेति । न हि परस्परासङ्कीर्णात्मनामकिञ्चित्करोऽर्थान्तरं समवायो युक्तोऽतिप्रसङ्गात् , योगे वा सर्वः सर्वस्य समवायः प्रसज्येत, व्यावृत्तस्वरूपान् हि भावाम् संश्लेषयन् पदार्थः समवायः प्रकल्पितः, न चार्थान्तरसम्बन्धसद्भावेऽपि स्वात्मनि व्यवस्थिता भावाः पर. 15 स्परस्वभावमन्वाविशन्ति, स्वरूपहानिप्रसङ्गात् , तस्य चार्थान्तरस्याश्लेषकारिणः समवाय इति नामकरणेऽपि न काचित् क्षतिः। न च श्लेषकरणात् समवायरूपत्वं संश्लेषस्य, संश्लिष्यम्मणपदार्थेभ्यो भिन्नस्य करणे तैस्तस्य सम्बन्धासिद्धेः, अभिन्नस्य करणे सामान्यादेः कार्यत्वेनानित्यत्वप्रसक्तेः तन्न सामान्यस्य व्यक्तिषु स्थितित्तिः । नाप्यभिव्यक्तिलक्षणाऽसौ युक्ता, असौ हि तद्विषयज्ञानोत्पादनमेव स्यात् , न तु स्वभावपरिपोषलक्षणा, नित्यस्य स्वभावा- 20 न्यथाकरणासम्भवात् , तथा च सामान्यस्य स्वतो यदि ज्ञानोत्पादनसामयं तदाऽभिव्यक्तिकारणानि व्यर्थानि भवेयुः, यद्यसामर्थ्य तदा परैरनायविशेषत्वात्तदपेक्षा न युक्ता, परैराधेयविशेषत्वे चाङ्गीक्रियमाणे सत्यनित्यत्वप्रसङ्गः, ततश्च व्यक्तित्रदेवासाधारणत्वान्न सामान्यं स्यात् , तेन सामान्यस्य व्यक्तिषु वृत्तिनिवन्धनाभावादवृत्तिः, तदेवं व्यवस्थितमसत् सामान्यं तत्साधकप्रमाणाभावात् , बाधकप्रमाणोपपत्तेश्चेति । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, 25 परस्परमत्यन्तव्यावृत्तबुद्धिहेतुत्वात् स्वाश्रयमन्यतो विशेषयन्तीति विशेषा उच्यन्ते, तत्स.
१ परमावाकाशकालदिगात्ममनःसु वृत्तेनित्यद्रव्यवृत्तयः, परमाणूनां जगद्विनाशारम्भकोटिभूतत्वात् , मुक्तास्मनां मुक्तमनसाञ्च संसारपर्यन्तरूपत्वादन्तत्वं तेषु भवा अन्या इति पददगार्थः । विनाशारम्भरहितनित्यप्रव्येषु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवो विशेषा इति केचित् ॥
"Aho Shrutgyanam"