Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
मोपानम्
कणादोक्तशेयनिरसनम् । भिव्यञ्जकत्वायोगेन तक्रियाविनाशे पश्चात्तद्वद्धिन स्यात् । न चैकदाऽभिव्यक्तं सर्वदेवाभिव्यक्तमिति पश्चात्तद्वद्धिर्भविष्यतीति वाच्यम् , प्रागपि सामान्यस्याभिव्यक्तस्य सत्त्वेन तन्मतिप्रसङ्गात् । न च प्रागनभिव्यक्तः, अभिव्यक्तान भिव्यक्तभेदतोऽनेकत्वापत्तेः । अथ व्यक्ति. प्रतिभाससमय एव सामान्यप्रतिभास इति न ततः प्राक् पश्चाद्वाऽभिव्यक्तकरूपस्यापि तस्य ग्रहणमिति चेत्तर्हि व्यक्तिप्रतिभासकालेऽपरप्रतिभासस्यासंवेदनादनुगतप्रतिभासस्य तदा व्य- 5 क्तिनिवन्धनत्वात्सामान्यस्याभाव एवेति प्राप्तम् । किञ्चोत्पद्यमानेन पिण्डेन सह सामान्यं किमन्यत आगत्य सम्बध्यते, उत्त पिण्डेन सहोत्पादात् किं वा पिण्डोत्पत्तेः प्रागेव तद्देशावस्थानात् , आधे प्राक्तनपिण्डपरित्यागेनागमने गोत्वपरित्यक्तस्य तस्यागोरूपताप्रसक्तिः, अपरित्यागेन चेत् तापरित्यक्तप्राक्तनपिण्डस्य निरंशस्य रूपादेरिव गमनासम्भवः, न ह्यपरित्यक्तप्राक्तनाधारणामाधारान्तर सङ्क्रान्तिः क्वचिदप्युपलब्धा । न च प्राक्तनाधारापरित्यागेऽपि 10 सर्पादेरिवाधारान्तरसातिस्सामान्यस्य भविष्यतीति वक्तव्यम् , सामान्यस्यामूर्तत्वाभ्युपगमात् । न च सर्पवत्पूर्वाधारापरित्यागेनाधारान्तरक्रोडीकरणे सामान्यरूपतया सदेशस्य घटवत्सामान्यरूपतानुपपत्तेः, न द्वितीयः, उत्पत्तिमत्त्वेन तस्यानित्यताप्रसक्तेः, अनित्यस्य च ज्वालादिवत्सामान्यरूपत्वायोगात । न तृतीयः, निराधारस्य सामान्यस्य तत्रावस्थानासम्भवात्, सम्भवे वाऽऽकाशवत्सामान्यरूपताविरहात् । न च गमनादिधर्मविकलस्यापि 15 सामान्यस्योत्पद्यमान पिण्डसम्बन्धो गौगौरित्यनुगतप्रत्ययात् प्रतीयत एवेति प्रमाणप्रतिपन्ने वस्तुनि विरोधााद्भावनमसङ्गतमेवेति वाच्यम् , गौॉरित्यनुगताकारप्रत्ययस्य प्रागभावादिष्वभावप्रत्ययवसामान्यसम्बन्धमन्तरेणापि सिद्धत्वात् । यदि च पिण्डभिन्नानुस्यूसैकसामान्याभ्युपगमस्तदा एकपिण्डोपलम्भे तस्याविभक्तत्वात् पिण्डान्तरालेऽप्युपलब्धिः स्यात् , न हि तस्यैकत्राभिव्यक्तस्यान्यत्रानभिव्यक्तरूपता, विरुद्धधर्माध्यासतो भेदप्रस- 20 ङ्गात् । न चान्तराले संयुक्तसमवायसम्बन्धस्योपलम्भहेतोरभाव इति वक्तव्यम , तत्र तत्सद्भावे प्रमाणाभावात् , अन्तराले हि सामान्य सद्भावस्य प्रमाणतः सिद्धौ तदग्रहण निमित्तमुपपद्येतापि न च तत्र तत्सद्भावः सिद्धः । अपि च अक्षणिकैकव्यापकस्वभावत्वे सामान्यस्य येन स्वभावेनैकपिण्डवृत्तित्वं तस्य किं तेनैव स्वभावेन पिण्डान्तरवृत्तित्वं, उत स्वभावान्तरेण, न प्रथमः, सर्वपिण्डानामेकत्वप्रसङ्गात् , एकदेशकालस्वभावनियतपि- 25 ण्डवृत्त्यभिन्नसामान्यस्वभावकोडीकृतत्वात्सर्वपिण्डानाम् , प्रतिनियतदेशकालस्वभावैकपिण्ड. वत् । न द्वितीयः, अनेकस्वभाव सम्बन्धेन सामान्यस्यानेकत्वप्रसङ्गात् , न चैकस्याप्यनेक.
१ पचनक्रियाविशिष्टपुरुषव्यक्तिप्रतिभाससमय इत्यर्थः ।। २ यदनेकखभावसम्बन्धि तदनेक दृष्टम् यथा घटपटादयः, अनेकखभावसम्बन्धि च भवद्भिः सामान्यमभ्युपगम्यतेऽतस्तेनाप्यनेकेन भाव्यमिति भावः ॥
"Aho Shrutgyanam"

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420